________________
४१४] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे
अन्त:- इति श्रीअलङ्कारमूलकारिका समाप्तिमगमत् ॥
संवत् १८२५ वर्षे महाशुदि ५ गुरौ भटश्रीभगवानपाचे पं० मुक्तिसौभाग्यममिभिः पठितोऽयमलङ्कारग्रन्थः श्रीवडोदरानगरे श्रीफत्तेसिंहजीराज्ये । श्रीमत्पुण्यसागरसूरीश्वरैर्दत्तोऽयमलङ्कारग्रन्थः ॥
(6292] अन्तः- इति श्रीजिनदत्तसूरिशिष्यमहाकविचक्रचूडामणिश्रीमदमरचन्द्रविरचितायां काव्यकल्पलता-कविशिक्षावृत्तौ अर्थसिद्धिप्रताने चतुर्थे समस्यास्तबकः सप्तमः समाप्तः ॥ ग्रन्थाग्रम् १४५॥(?) सम्पूर्णश्चायमर्थसिद्धिप्रतानः चतुर्थः ॥ एवं ग्रन्थानम् ११२२(१) ॥ श्रीमद्वायटगच्छवारिधिविधोः पादारविन्दद्वये
येन श्रीजिनदत्तसूरिसुगुरोः शृङ्गारभृङ्गायितम् । स श्वेताम्बरमौलिरत्नममरः श्रीवीरतीर्थङ्कर
प्रह्वात्माऽकृत काव्यकल्पलतिकावृत्तिं सतां सम्मताम् ॥१॥ सिक्तेयमुद्धृतैः शास्त्राब्धिभ्यः सारसुधारसैः । काव्यकल्पलताऽऽकल्पं तनोतु सुमनोमुदम् ॥२॥ काव्यमेव परब्रह्मास्वादसोदरशर्मदम् । आलोकं पालयामास कालिदासकवेर्यशः ॥३॥ वाल्मीकि-व्यासयोर्विश्वे विश्वदिङ्मूलकूलगा । कल्पान्तोल्लचिनी कीर्तिः काव्यादेव विज़म्भते ॥४॥ काव्यकल्पलतावृत्तौ ससूत्रायामनुष्टुभाम् । त्रिसहस्रत्रिशती च सप्तपञ्चाशदुत्तरा (३३५७)॥५॥
समाप्ता चेयं काव्यकल्पलताकविशिक्षावृत्तिः ॥ नन्दाकाश-शरेन्दुमण्डल(१५०९)मिते संवत्सरे माधवे
मासे सोमजवारकेऽतिविमले शुक्ल द्वितीयादिने । सानन्देन जिनप्रमोदगणिना श्रीचित्रकूटाऽचले
___sलेखि श्रीयुतकाव्यकल्पलतिका स्वान्योपकृत्यै शुभम् ॥१॥ श्रीतपागच्छाधिराजपरमगुरुश्रीमुनिसुन्दरसूरिशिष्यशिरोमणिश्रीलक्ष्मीसागरसूरिशिष्येण।
[6314] अन्तः-जयन्ति याज्ञिकश्रीमन्महादेवाङ्गजन्मनः ।
सूक्तपीयूषवर्षस्य जगदेवकवेः गिरः ॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org