SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ प्रशस्त्यादिसंग्रहः । महादेवः सत्रप्रमुखमखविध्येकचतुरः ___ सुमित्रातद्भक्तिप्रणिहितमतिर्यस्य पितरौ । प्रणीतस्तेनासौ सुकविजयदेवेन रचित-- श्चिरं चन्द्रालोकः सुखयतु मयूखैर्दशदिशः ।। - इति श्रीपीयूषवर्षपण्डितश्रीजयदेवविरचिते चन्द्रालोकेऽभिधास्वरूपो नाम मयूखः समाप्तश्चायं ग्रन्थः । वृ०अन्तः-श्रीवीरभद्रदेवेन भूदेवामरशाखिना । यशोदागर्भरत्नेन यत्नेनेदं विनिर्मितम् ॥ लक्ष्मीर्वक्षसि कौस्तुभप्रणयितो यावत्तथा ङ्गगता ___ मङ्गीकृत्य पुरद्विषो गिरिसुता स्थेमानमालम्बते । यावद्वेदगिरः पुराणविधयस्तावद् भुवो मण्डले चन्द्रालोकविकाशमेष कुरुतां ग्रन्थोऽभिरामोदयः ॥७॥ श्रीवीरभद्रभूपतिलब्धनिदेशेन यत्नेन । चन्द्रालोकमयूखो दशमः स्पष्टार्थतां नीतः ॥८॥ इति श्रीमहाराजाधिराजश्रीरामचन्द्रदेवात्मजयुवराज-श्रीवीरभद्रदेवादिष्टमिश्रबलभद्रात्मजसकलशास्त्रारविन्दप्रद्योतनभट्टाचार्यविरचिते चन्द्रालोकप्रकाशे शरदागमे दशमो मयूखः समाप्तः ॥१०॥ [6320] आदिः-शृङ्गार-हास्य-करुणा-रौद्र-वीर-भयानकाः । बीभत्साद्भुत-शान्ताख्या रसाः पूर्वैरुदीरिताः ॥१॥ एके तु निर्विकारत्वान्न शान्तं मेनिरे रसम् । शमादयस्तु पूर्वोक्तरसेभ्यो न पृथग मताः ॥ अन्तः- इति रसकलिकाभिधानमलङ्कारं समाप्तमिति ॥ श्रीरस्तु । ग्रन्थानम् ६३५॥ काशीलिपेरियं प्रतिरलङ्कारस्य लिखिताऽस्ति तेन शोधनीया साधुभिः । [6327 ] अन्तः- यन्मया जल्पितं बाल्याद् व्यक्तमव्यक्तमेव वा । कृपयैतदनुग्राह्य साधुभिर्दीनवत्सलैः ॥१॥ शेषावतंसश्रीशेषनृसिंहतनयः सुधीः । एनां मनोविनोदाय मञ्जरीव्याकृति व्यधात् ॥२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018007
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1965
Total Pages598
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy