________________
प्रशस्त्यादिसंग्रहः ।
[४१३ नत्वा भवानीचरणारविन्दं मनोहरेण क्रियते विचार्य ।
माणिक्यमल्लक्षितिपालतुष्टयै सुबोधिनीयं श्रुतबोधटीका ॥२॥ इति समस्तनृपतिशिरोमणिरञ्जितपाठमाणिक्यमल्लकारिता श्रीमनोहरशर्मकृता श्रुतबोधटीका सुबोधिनी समाप्ता ॥
[6272] वृ०कादि:- . .जननसमर्था वादिना यस्य पादा--
वसुर-सुर-मनुष्यै रिविद्भिर्हि नत्वा । ललितपदसुरम्या शास्त्रबोधस्य टीका
मुनिरह मिह कुर्वे हंसराजो विचित्राम् ॥१॥ सुगुरुवचनदीपैर्दर्शितं तत्त्वरूपं
मम हृदयगृहं तेऽनुग्रहाद् यत्तदेव । भृशमहमभिधास्ये बालबोधिप्रसन्न
निजपठननिमित्तं बालबोधाय चैव ॥२॥
छन्दसां अहं कविः कालिदासस्तत्श्रुतबोधं........। वृ०अन्तः- पूज्यश्रीनानकाख्यो निखिलगुणगणैर्युक्त आत्मीयगच्छ
स्वामी जीमूतनादो विहरति भुवने साम्प्रतं तत्त्ववेत्ता । छात्रस्तस्यास्ति हंसः पटगुरुवचनस्थापिनी चारबुद्धि
ष्टीकास्तेनाभिरामा जगति विरचिता श्रुतबोधस्य मृद्वी ॥१॥ श्रीमद्विक्रमभूपतेः शर-चतुः-षट्-भूमिसंयुक्तके(१६४५)
वर्षे चैत्रकमासलोकविदिते पक्षे द्वितीये सिते। पञ्चम्यां कविवासरे विलिखिता हंसेन टीकाऽमला
श्रीमन्नानक....मुनिना भूयाच्चिरं के वयम् ॥२॥ ..
इति श्रीश्रुतबोधटीकाबालावबोधिनी समाप्ता ॥ श्रीविक्रमात् सिद्धि-रसर्षि-चन्द्र(१७६८)तुल्ये शुभे हायनके च मासे । सत्कार्तिके पक्षसुनिर्मलाभे.... .शुभवासरे रखेः ॥१॥ लिलेख जीताम्बुनिधिः प्रयत्नात् टीका सुटीकां प्रकटार्थरम्याम् । श्रीशास्त्रबोधस्य च कालिदासकृतस्य शोध्या परमार्थविद्भिः ॥२॥
[6284 ] आदिः-अमरीकबरीभारभ्रमरीमुखरीकृतम् ।
दूरीकरोतु दुरितं गौरीचरणपङ्कजम् ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org