SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ प्रशस्त्यादिसंग्रहः । [४०९ हाषीवित्तान्यहाषीत्तहि (?) बहुविदुषामाभिनन्दीव बन्दी स प्राणी स्यान्न वाणी न च रुचिरतया चावलीत्यावली वाग् । मायूरी कर्णपूरी भवति न सुतरामामरी पामरी यद् वाचः श्रीवाचकेन्द्रो जनयति जिनमाणिक्यनामाऽभिरामाः ॥११॥ भाष्यं साक्षितया विधाय सुधियो ये त्वर्थमात्रं जगु- . ये वा संशयिताश्च ते न किल तास्तेनैष ते तेऽञ्जलिः । ये लक्षार्थसमर्थनप्रतिदिनव्यग्रात्मनस्तेष्वयं सन्नद्धो भवतीति रीतिरनघा श्रीवाचकाधीशितुः ॥१२॥ स्थाने स्थाने शतार्थीति यथार्थाह्वानयोगतः । योगतो जगति ख्यातिप्रतिसोमप्रभादिति ॥१३॥ चारित्ररत्नवाचकचरणपरिचारचारुचरितेन । रचिता तेन शतार्थी सतां कृतार्थीकरोतु नः ॥१४॥ युग्मम् । व्यालाधीशमृणालशालिनि रजोजिद्भानुभाजाऽलिनि प्रोद्यदिग्दलमालभारिणि नभोभृङ्गौघशृङ्गारिणि । यावद् राजमरालति प्रतिकलं राजा द्विपक्षीं दधत् तावच्छास्त्रमिदं विदन्तु हृदयानन्दप्रदं नन्दतात् ॥१५॥ इति श्रीशतार्थविवरणं संपूर्णम् । ग्रन्थानम् १६९० श्लोकाः ॥ संवत् १६४४ वर्षे श्रावणवदि १४ सोमदिने लिखिता पं० श्रीपमविजयगणिशिष्यहर्षविजयगणिना प्रतिरियं स्ववाचनार्थं परोपकाराय च वाच्यमाना चिरं नन्दतु शुभं भवतु कल्याणं भूयात् सकलसङ्घस्य ।। श्रीव्याघ्रसेनाभिधे पुरे । [6232] अन्तः- श्रीमद्वाचकचक्रवर्तिसुगुरुश्रीहर्षकल्लोलसत् शिष्यः पण्डितमण्डली बहुमतः श्रीलक्ष्मीकल्लोलकः । सैवेदं रचयांचकार सुपरागार्थाऽष्टयुक्तं शतं तेनाप्नोतु कृती जनः शिवसुखं पुण्येन लब्धोदयम् ॥२८॥ ___ इति परागशब्दाष्टोत्तरशतार्थनिबद्धं साधारणजिनस्तवनं पं० लक्ष्मीकल्लोलगणिना कृतम् ॥ [6243] वृ०अन्त:- गङ्गेशगुरुपादाब्जमकरन्दप्रसादतः । सारोद्धारः कृतोऽनेन प्रीयतां परमेश्वरः ॥२६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018007
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1965
Total Pages598
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy