SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ ४०८] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे [6230 ] अन्तः-- इति श्रीसोमसुन्दरसूरि-तत्पट्टप्रभाकरश्रीजयचन्द्र रसूरिवाचकचक्रचक्रवर्तिचारित्ररत्नगणि-शिष्यश्रीजिनमाणिक्यगणिरचिता शतार्थी जीयात् । आसीत् सोमगणव्योमसोमः श्रीसोमसुन्दरः । सूरि रिगुणग्रामः रामणीयकमण्डितः ॥१॥ तत्पट्टोदयशोभाग्रजाग्रत्तरदिवाकराः । मुनिसुन्दरसूरीन्द्राः पारीन्द्राः परवारणाः ॥२॥ सूरिः श्रीजयचन्द्रोऽभूद् यशोनिस्तन्द्रचन्द्रिकः । कृतिनामाननं येनाकारि कैरवकाननम् ॥३॥ तत्पट्टकमलालाभे कालेयतिलकाकृतिः । .अभूत् प्रभूतविद्याभूः सूरिः श्रीरत्नशेखरः ॥४॥ तत्पट्टप्रकटाम्भोजप्राभातिकविभावति । भाति विश्वातिशायिनि श्रीलक्ष्मीसागरश्चिरम् ॥५॥ सूरिसोमजयाह्वानः स्थानमानन्दसंविदाम् । द्वितीयोऽप्यद्वितीयश्रीविशेषगुणशेखरः ॥६॥ षट्तांगममर्मधर्मसमयप्रोन्मथ्यजाड्यप्रथः ___ साक्षाल्लक्षणवेदिवारणघटासंघट्टघण्टापथः । आसीद् वाचकनायकः सुकृतिनामानन्दनः स्पन्दनः सर्वाङ्गीणगुणश्रियां युगवरश्चारित्ररत्नो गुरुः ॥७॥ जिनसुन्दरशिष्यः सन् युक्तं यो जिनसुन्दरः । कुतुकं यत्र के चक्रे जिनं श्रीजिनसुन्दरम् ॥८॥ साष्टाऽष्टादशलक्षणाऽकृत मतिप्राग्भारसारस्वतो द्गारस्तारकवीरजित्वरयशःसम्भारविश्वम्भरः । तच्छिष्यप्रतिपक्षपर्वतपथपक्षच्छिदाखण्डलः क्षोणीमण्डलमण्डनः स जिनमाणिक्यो गुरुर्गीयते ।।९।। बुद्धिः का तव बौद्ध शुद्धिमपि रे नैयास्तु नैयायिक व्याख्येयोऽसि न साङ्खय सैष विदुषां सीमा न मीमांसकः । दूरं दूरमरे विशन्तु विवरे यद्वाग्गिरेर्गह्वरे यस्माज्जल्पभरेऽपि जातु जिनमाणिक्यो न शक्यः परैः ॥१०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018007
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1965
Total Pages598
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy