________________
प्रशस्त्यादिसंग्रहः।
[४०७ तदुरुपट्टमरुत्पथतापनः परमदर्पकदर्पविनाशनः ।।
उदयवल्लभसूरिरभूद् गुरुः सुरगुरूपमनिर्मलबुद्धिमान् ॥६॥ ज्ञात्वा सुधाधिकरसं स्वत आविवेश श्वभ्रं हिया परमया किल यस्य वाचाम् । तत्पट्टकैरवविबोधनपार्वणेन्दुः श्रीज्ञानसागरगुरुः समभूत् शमीशः ॥७||
ससंवरः सारसरस्वतीवरः सुवेल आप्तोरगभीरतागुणः । मितद्रुवत् तस्य पदे लसद्वसुर्गुरुर्बभूवोदयसागराभिधः ॥८॥ छायाकरो विबुधसंहतिभिः प्रसेव्यो मेरुस्थिती रुचिरभूरिपदार्थदाता ।
कल्पद्रुवत् समजनि प्रकट[प्र]भावः श्रीलब्धिसागरगुरुस्तदनर्धपट्टे ॥९॥ यस्य प्रबुद्धजनताप्रमदप्रदाच्या निस्तुल्यया सकलया कलया गुणाल्या । ज्योत्स्नाभया धवलिता धरणी स जीयात् तत्पट्टकैरवशशी धनरत्नसूरिः ॥१०॥ श्रीलब्धिसागरगुरुकमपद्मभृङ्गसौभाग्यसागरविनेयकणेन चक्रे । नन्दर्षि-बाण-रजनीश(१५७९)मिते सुवर्षे मासे सहेधिचतुर्थशतार्थवीथी ॥११।। वदावदाः प्रोन्मदवादिवादिदन्तावलोद्बलविगालनपञ्चवक्त्राः । वक्त्राब्जगौरशुचिरोचितिरस्कृताब्जाः सौभाग्यसागरमुनीशवरा जयन्तु ॥१२॥
___ वक्त्रहिमाचलमूलाभिरगाद् रङ्गेव भगवतो यस्य । .. स चतुःशतार्थवीथी कुशलं दद्याद् गुरुः कुशली ॥१३॥ इति प्रशस्तिसत्कवर्णव्यक्तयुक्तिः ।।
[6229] आदि:- यद्भारती कामगवीव पुंसां विचित्रमर्थ हृदयानुरूपम् ।
धर्मोपदेशावसरे प्रसूते स वः शिवं तीर्थकरः करोतु ॥१॥ लसन्ति यस्याः स्मरणेन सूक्तयः पयोदपङ्क्तेः पयसा लता इव । मतिप्रबोधात् कृपयाऽनुगृह्णद् जगन्ति सा वः श्रुतदेवताऽवतात् ॥२॥ प्रभुर्बभूवाजितदेवसूरिः स चन्द्रगच्छाम्बरपूर्णचन्द्रः । जिनेन्द्रधर्माम्बुनिधिः प्रपेदे धनोदकः स्फूर्तिमतीव यस्मात् ॥३॥ जयति विजयसिंहः सूरिरुद्दामकामद्विरदविजयसिंहस्तस्य पादाब्जहंसः । चरणकरणनिष्ठां यस्य संवीक्ष्य लोकः कुवलयदलमृद्धीं वेत्ति धौताऽसिधाराम्॥४ तस्याहिपकेरुहचञ्चरीकः सोमप्रभाचार्य इति प्रसिद्धः । परावबोधाय परार्थवृत्तः शतार्थवृत्तस्य तनोति वृत्तिम् ॥५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org