________________
४०२ ]
Jain Education International
मुनिराज श्रीपुण्यविजयानां हस्तप्रतिसंग्रहे
क्षुभ्यत्क्षीराब्धिकल्लोलमालोल्लासि यशः श्रियम् । गुरुं वन्दे जगद्वयं गुरुरत्नैकरोहणम् ||४|| श्री साहसाङ्कनृपतेर्निरवद्यविद्यवैद्यान्तरङ्गपदपद्धतिमेव बिभ्रत् ।
चन्द्रचारित हरिचन्द्रनामा स्वव्याख्यया चरकतन्त्रमलञ्चकार ||५|| आसीदसीमवसुधाधिपवन्दनीये तस्यान्वये सकलवैद्यकुलावतंसः । शक्रस्य द इव गाधिपुराधिपस्य श्रीकृष्ण इत्यमलकीर्त्तिलतावितानः ॥ ६ ॥ संकल्पसम्मीलदनल्पविकल्पजल्पकल्पानला कुलितवादसहस्रसिन्धुः । तर्कत्रयत्रिनयनस्तनयस्तदीयो दामोदरः समभवद्भिषजां वरेण्यः ||७|| तस्याभवत् सूनुरुदारवाचो बाचस्पतिश्रीललनाविलासी । सद्वैद्यविद्यानलिनीदिनेशः श्रीमल्हणः सत्कुमुदाकरेन्दुः ||८|| यद्भ्रातृजः सकलवैद्यकतन्त्र रत्न रत्नाकरश्रियमवाप्य च केशवोऽभूत् । कीर्त्तिर्निकेतनमनिन्द्यपदप्रमाणवाक्यप्रपञ्च रचनाचतुराननश्रीः ॥९॥ कृष्णस्य तस्य च सुतः स्मितपुण्डरीकखण्डातपत्रपरभागयशः प्रतापः । श्रीब्रह्म इत्यविकरालमुखारविन्दे सोल्ला सिलासितरसार्द्रसरस्वतीकः || १०|| तस्यात्मजः सरसकैरवकान्तिकीर्त्तिः श्रीमान् महेश्वर इति प्रथितः कवीन्द्रः । निःशेषवाङ्मयमहार्णवपारदृष्ट्या शब्दागमाम्बुसहखण्डरविर्वभूव ॥ ११॥ यः साहसाङ्कचरितादिमहाप्रबन्ध निर्माणनैपुणगुणागतगौरवश्रीः । यो वैद्यकत्रय सरोजकरोजबन्धुर्बन्धुः सतां च कविकैरव काननेन्दुः ||१२|| इयं कृतिस्तस्य महेश्वरस्य वैदग्ध्यसिन्धोः पुरुषोत्तमस्य । देदीप्यतां हृत्कमलेषु नित्यमाकल्पमाकल्पितकौस्तुभश्रीः ॥ १३ ॥ लब्धेः कथश्चिदभिजातसुवर्णकारलीलेन कोशशतरत्नधिशब्दरत्नैः । विश्वप्रकाश इति काञ्चन बन्धशोभां बिभ्रन्मयाऽत्र घटितो मुखमण्ड एषः ॥ १४ ॥ फणीश्वरोदीरितशब्दकोशरत्नाकरालोडनलालितानाम् ।
सेव्यः कथं नैष सुवर्णशैलो विश्वप्रकाशो विबुधाधिपानाम् ||१५|| भोगीन्द्र - कात्यायन- साहसाङ्क- वाचस्पति-व्याडिपुरःसराणाम् । सविश्वरूपामलमङ्गलानां शुभाङ्गवोपालितभागुरीणाम् ॥१६॥ कोशावकाशात् प्रकटप्रभावसम्भावितानर्वगुणः स एषः । सम्पादयन्नेष्यति वाञ्छितार्थान् कथं न चिन्तामणितां कवीनाम् ॥ १७॥ आमित्रशैलचरमाचलमेखला द्विकैलाशभूमिवलयाद्य दिहास्ति किञ्चित् । एकत्र सम्भृतमगोचरशब्दरत्नमालोक्यतां तदखिलं सुधियः कवीन्द्राः ॥ १८ ॥
For Private & Personal Use Only
www.jainelibrary.org