________________
[४०१
प्रशस्त्यादिसंग्रहः । निन्दन्तं सेतुभेदं जलनिधिविषये शीततां शीतशैले
कैलासे गम्यभावं विषधरभवने सर्पवासं सदर्पम् । यस्योदग्रप्रतापज्वलनचलनाद्वैरिणो चक्रभाजा
रक्षन्ति स्वं तृणेनाकुलितमतिहृदश्चित्रमेतच्चरित्रम् ॥६१॥ यत्कीर्त्तिर्मुदमाददाति गुणिनां कण्ठेषु लग्नां परां
त्रिष्वेव भ्रमणं करोति भुवनेष्वेकाकिनी स्वेच्छया । भूपानां नरिनर्ति संसदि सदा सर्वाङ्गसंदर्शिनी ।
लोके सा विदिता तथाप्यतिमती पुण्यैर्यशः प्राप्यते॥६२॥ अब्दे ब्रह्म-जगद्युगेन्दु(१४३१)गणिते श्रीविक्रमार्कप्रभो
___ माघे मासि वलक्षपक्षललिते षष्ठयां सुधांशोदिने । दीनानां परितापपापदलने ग्रन्थं निघण्टुं किल
श्रीदः श्रीम[द]नो व्यधत्त चतुरः सच्चक्रचूडामणिः ॥६३॥ अनवद्यानि पद्यानि दश द्वादश वा मया । परेषामपि केषाञ्चिल्लिखितानीह कौतुकात् ॥१४॥ वाचस्पतेः पितुरुदारसुवन्धविद्या वाचस्पतेश्वरणपङ्कजषट्पदेन । वादीभपञ्चवदनेन कवीश्वरेण साहाय्यमत्र समकारि गुणाकरेण ॥] यो राज्ञां मुखतिलकः कटारमल्लस्तेन श्रीमदन[ नृपेण निर्मितेऽत्र । ग्रन्थेऽभून्मदननर्मिते पूर्णाकर्णानाममृतरसप्रददा प्रशस्तिः ॥६५॥ इति श्रीमदनपालविरचिते मदनविनोदे निघण्टौ वर्गश्चतुर्दशः।।१४॥
संवत् १८७७ मिति माघशुदि ११ बृहस्पतिवारान्वितायां लिखितं श्रीमत्पूज्याचार्यविमलचन्द्रस्वामीजी-तच्छिष्य विष्णाऋषि-तद्लघुभ्रातृविहारिऋषिराज्यं सिंहजीराजः शुभं भूयात् अमृतसरनगरमध्ये लिपीकृतम्।
[6207 ] आदिः-- स्वस्ति श्रीजिनाय नमः ॥
स्तुवीमहि महामोहक्लेशान्तकभिषग्वरम् । वैधातुकनिदानशं सर्वज्ञं दुःखहायने ॥१॥ कलाविलासान्मकरन्दबिन्दुमुद्रा विनिद्रे हृदयारविन्दे । या कल्पयन्ती रमते कवीनां देवी नमस्यामि सरस्वती ताम् ॥२॥ कवीन्द्रकुमुदानन्दमुकुन्दो वसुधाकरम् । वाचस्पतिमतिस्पर्द्धिशेमुषीचन्द्रिकोज्ज्वलम् ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org