________________
४००
मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे टाकान्वये महति भूमिभुजां विशुद्धे
काष्ठेति नाम नगरं जगति प्रसिद्धम् । यद्वेधसा विहितमादरतः स्वसृष्टे
रुत्कृष्टताशयनपुञ्जदिदृक्षयेव ॥५१॥ तत्र श्रीरत्नपालः समजनि जनतानन्दवृन्दैककन्द
कुन्देन्दुस्वच्छकीर्त्तिः परमददलनो दानदीक्षकदक्षः । यस्याकर्ण्य प्रभूतं प्रथितगुणगणं कर्णसाफल्यभाजो
दैव निन्दन्ति लोका नयनविफलताखेदमावेदयन्तः ॥५२॥ जननयनसुधांशुस्तस्य शुद्धस्तनुजो
जगति भरहपालः क्षोणिपालो बभूव । सकलसकलवाञ्छासिद्धहेतोर्विधाता
सुरतरुमिह चक्रे यत्करच्छद्मनेव ॥५३॥ हरिश्चन्द्रस्तस्मात् समजनि जनानन्दजननो।
हरिश्चन्द्रो लोकेऽपर इव परीतापदलनः । परं विश्वामित्रेष्वहितमयमाधत्त मतिमान्
वसिष्ठो नैतस्माज्जगति महितोऽन्यः सुकृतिनः ॥५४॥ तस्माद]भूदद्भुतमन्यमानः साधारणो भूमिपतिर्वदान्यः । दारिद्रयमुन्मूल्य पुनः सुवैरिष्वस्थायि कामं कृपयेव येन ॥५५॥ कामं सर्वमहेशमान्य उदयो नास्तं प्रयातः कचि
नो दानं मधुपप्रियं जनमनःसंतापनुच्छ्रुरता (?) । सच्चक्रातिविचित्रमित्रसुखिता वृद्धिप्रदा चन्द्रता चातुर्येण महेन्द्रता कविमता किं किं न यस्याद्भुतम् ॥५६॥ अजनि सहजपालस्तस्य पूर्वस्तनुजः सकलगुणनिधानं शास्त्रधर्मैकवेत्ता । प्रथितपुरुषरत्नं यं समालोक्य लोका बहुविधिषु विधातुः कान्ततां मन्वते स्म ॥५७॥ किं वर्ण्यते श्रीसहजेन्द्ररूपं लोकाक्षिनीलोत्पलपूर्णचन्द्रम् ।। सदा रतिः श्रीमदनोऽपि यस्य सहोदरत्वेऽपि कनिष्ठ एव ॥५८॥ जयति मदनपालः सर्वविद्याविशालः सुजनपिकरसालस्तुष्टगोपालबालः । रुचिरतरचरित्रश्चारुचातुर्यचित्रः कृतसरसिजमित्रः कर्मधर्मे पवित्रः।।५९॥ सदा यदीया गुण[र]त्नमाला कण्ठेष्वतीवात्र सतां लुठन्ती । अस्यैव शोभामधिकां विधत्ते लोके चरित्रं महतां विचित्रम् ॥ ६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org