SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ प्रशस्त्यादिसंग्रहः । [४०३ यद्यस्ति वाङ्मयमहार्णवमन्थनेच्छाप्राप्तं पदं फणिपतेर्यदि कौतुकं वः । विश्वप्रकाशमनिशं तदिमं निषेव्य सम्भाव्यतां परमशाब्दिकशेखरश्रीः ॥१९॥ सतां पुस्तकसम्भारभारमोक्षः कृतो मया । नानानुशासनमिदं संपूर्ण तन्वतादद्भुतम् ॥२०॥ एकद्वित्रिचतुःपञ्चषड्वर्णानुक्रमोज्ज्वलैः । कान्तादिवर्गेर्नानार्थसङ्ग्रहोऽयं वितन्वते ॥२१॥ नानार्थप्रथमान्तोऽत्र सर्वत्रादौ प्रदर्शितः ।। सप्तम्यन्तेषु शब्देषु वर्त्तमानः सुनिश्चितः ॥२२॥ दृष्टान्तेन सह कापि सप्तम्याधार एव च । स्पष्टा यल्लिङ्गभेदाय काऽप्यत्र पुनरुक्तता ॥२३।। अन्तः- एतां कृतिं कृतधियः कृतकृत्यभावमापादयन्तु सदयं मदयन्तु वैते । _नित्यं महेश्वरकवेः परिभावयन्तः सन्तः परोन्नतिरता हि भवन्ति लोके ॥२७॥ इति श्रीसकलवैद्यराजचक्रमुक्ताशेखररहस्यगद्यपद्यविद्यानिधेः श्रीमहेश्वरस्य कृतौ विश्वप्रकाशाभिधाने नानार्थपरिच्छेदो द्वितीयः समाप्तः शुभम् ॥ [6210] अन्तः- संवद्धनञ्जय-प्रदर-नग-द्विजराज(१८८८)हायने शुचिमासे प्राक्पक्षे षष्ठीकर्मवाटयां दैत्यगुरुघने श्रीश्रीबृहत्खरतरगणे आचार्यश्रीसागरचन्द्रसूर्यन्वये वा०श्रीमहिमराजगणि वा ० श्रीशमसुन्दरगणि वा०श्रीसाधुलाभगणि वा०चारुधर्मगणिवा०श्रीसमयकलशगणि वा०श्रीसुखनिधानगणि-श्रीगुणसेनगणिवाचनाचार्यश्रीयशोलाभगणि-तद्विनेययुक्तिसुन्द[रेण] लिखितं द्राक् पं०मनोहरयुक् श्रीकोट्टडादुर्गे । आधिव्याधिहरो देवो जीरापल्लीशिरोमणिः । पार्श्वनाथो जगन्नाथो नित्यनाथो नृणां श्रिये ॥१॥ आदीश्वर] नमस्तुभ्यं मह्यं देहि महोदयम् । कुर्वन्ति प्रार्थनाभङ्गं सन्तो नैव कदाचन ॥२॥ [6214] आदिः- ध्यात्वाऽर्हतो गुरून् प्राज्ञान् वाग्देवीमपि भक्तितः । शब्दरत्नाकरं कुर्वे शब्दभेदार्थसङ्ग्रहम् ॥१॥ अन्तः- इति वादीन्द्रश्रीसाधुकीलुपाध्यायमिश्राणां शिष्यलेशेनोपाध्यायश्रीसाधुसुन्दरगणिना विरचितायां शब्दरत्नाकरनामशब्दप्रभेदनाममालायां सामान्यकाण्डः षष्ठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018007
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1965
Total Pages598
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy