________________
३९८]
vvvv
मुनिराजश्रीपुण्यविजयनां हस्तप्रतिसंग्रहे तदङ्गगजः श्रीहरिदासनामा बभूव भाग्योदयचण्डभानुः । त्रयोऽभवन् तत्तनया गुणाढ्याः परोपकारप्रथिता जगत्याम् ॥४॥ पर्शरामस्तदायोऽभूद् द्वितीयश्चतुराभिधः । नरेन्द्रचन्द्र इत्याख्यस्तृतीयः सोदरोऽभवत् ॥५॥ पशुरामेण सम्प्राप्तं श्रीमत्साहिसिकन्दरात् । साम्राज्यं यवनपुरे सदा दानैकवृत्तिना ॥६॥ स्वर्णयज्ञोपवीतादि ब्राह्मणेभ्यो ह्यनेकशः । पवित्रात्मा महादानं पशुरामो ददौ सुधीः ।।७।। नरेन्द्रचन्द्रेण जगद्धितेन भागीरथीलक्षकजैः पुपूजे । परोपकारवतिनाऽनघेन श्रीकृष्णपादाम्बुजसेवकेन ॥८॥ नरेन्द्रचन्द्रस्य च धर्मपत्नी महासती श्रीपहवाभिधाना । असूत पुत्रं गढमल्लसझं मणिं यथारोहणभू-भूमिः ॥९॥ विपुलरुचिरकीर्तिः स्फारकन्दर्पमूर्त्तिर्विशदसुकृतपूर्तिः स्फूर्तियुक्तो बभूव । गढमलनरनाथो विष्णुपादाब्जहंसः प्रवरगुणसमुद्रः स्वीयवंशावतंसः ॥१०॥ तद्धर्मपत्नी सुषुवे सुतान् वरान् श्रीप्यारमाख्या गुणरत्नखानिः । यस्याः सुशीलांशतुलां न चान्या कान्ता समाप्नोदखिलावनीतले ॥११॥ नरहरिदासः प्रथमः परमानन्दो द्वितीयको विद्वान् । तृतीयो मनोहरायो दासाग्रो गुणिजनाभीष्टः ॥१२॥ जयति जगति जाग्रत्कल्पवृक्षावदातः पटुतरगुणपात्रो वैबुधाधारभूतः । सुकृतवशनिरीक्ष्यः सर्वदैकस्वरूपः परमपदसुपूर्वानन्दनामा नरेन्द्रः ॥१३॥ अरिकुमुदसमूहं मुद्रयन् हर्षयन् वै द्विजकुलजलजं संराजता राजमान्यः । परमपदसुपूर्वो यत्र शब्दो बभूवाऽधिकतरपरकान्त्यानन्दसूर्यः स सार्थः ॥१४॥ अन्येषामुपकाराय स्वीयबोधाय च स्फुटम् । नाममालाममूं चक्रे परमानन्दठक्कुरः ॥१५॥ परमानन्दस्य सुतो विजयी मकरन्ददासनामाऽस्ति । इन्द्रस्येव जयन्तः सर्वजनानामभीष्टगुणः ॥१६॥ यावद्गोविन्दनामानि धामानि च दिवौकसाम् । तावच्छ्रीपरमाणन्दीनाममाला प्रवर्त्तताम् ॥१७॥ वसु-भुवनत-निशामणि(१६४८)वर्षे हर्षेण फाल्गुने मासि । प्रतिपदि शुक्रे वारे पूर्णेयं पुण्यवेलायाम् ॥१८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org