________________
३९६ ]
मुनिराज श्री पुण्य विजयानां हस्तप्रतिसंग्रहे
प्रत्यक्षरं गणनया ग्रन्थाद् ग्रन्थविधायकः । ग्रथमानमिह ग्रन्थेऽष्टौ सहस्राणि पण्डिताः ॥ १६ ॥ सहस्रद्वितयं सूत्रग्रन्थमानं कृतं बुधैः । प्रतिनामाङ्कसङ्ख्याया लिखनान्नात्र संशयः ॥ १७॥ सूत्रवृत्त्याः सहस्राणि दश सन्त्युभयोरपि । ग्रन्थमानमिदं ज्ञेयं सर्वमेवं विचक्षणैः ॥ १८ ॥
एतच्छास्त्रं पठतां सज्ज्ञानं स्फुरद भूस्पृशां सुधियाम् । बुद्धिस्फूर्त्तिविधात्री प्रसीदताच्छारदादेवी ॥१९॥
श्री तिमिरिपुरपार्श्वनाथप्रसादात् । संव [ त्] १६८९ वर्षे प्रथमवैशाखवदिषष्ठी दिने गुरुवारे लिखिता पं० चारि [[ ] कीर्त्तिगणिना प्रतिरियम् ।
( पश्चात्कालीनोल्लेख:-)
नाममालाकी परत चन्द्रकीर्ति साटै ऋषि जैतसीनइ दीधी छइ सही २। [6144] आदि:- शब्दब्रह्म यदेकं यच्चैतन्यं च सर्वभूतानाम् । यत्परिणामस्त्रिभुवनमखिलमिदं जयति सा वाणी ॥ १ ॥ इयममरदत्त वररुचि-भागुरि-गोपालितादिशास्त्रेभ्यः । अभिधानरत्नमाला कविकण्ठविभूषणार्थमुद्धीयते । [6145]
अन्त:- संवत् १५५२ वर्षे पौषसुदि २ शुक्रे पूर्वाषाढा नक्षत्रे शुभनाम्नि योगे श्रीगैणोलीपत्तने राजाधिराज अरिमानमर्दनराज श्रीचाचा देवराज्यप्रवर्त्तमाने जोइसी त्रिपुरारिपठनार्थं इदं अमरकोष (श) पुस्तकं लिखाप्य (पि) तम् । लिखितं ज्योतिश्रीलालासुपुत्रा लिखितमिति ॥
[6151]
आदि : - या संस्मृता प्राणभृतां क्षणेन संसाधयेदिष्टसमस्तसिद्धिम् । विश्वस्य सृष्टि-स्थिति- नाशहेतुः सा भारती यच्छतु वाञ्छितं वः ॥ १ ॥ कवीन्द्रकुमुदानन्दकन्दोद्गमसुधाकरः ।
विरच्यते चतुः काण्डचा एषोऽनेकार्थसंग्रहः ||२॥ अन्तः - इत्यनेकार्थतिलके एकाक्षरसञ्ज्ञः प्रथमकाण्डः ।
[ 6178] आदि:- प्रणम्य सुधियां नाथं देवदेवं रमापतिम् । एकाक्षरनाममालां कुर्वे चेतः प्रसादनम् ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org