SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ - प्रशस्त्यादिसंग्रहः । [३९१ सिद्धहेमाष्टमाध्याये प्रोक्तं प्राकृतलक्षणम् । क्रियते दुण्डिका तस्य नाम्ना व्युत्पत्तिदीपिका ॥२॥ अन्तः- इति वृद्धतपागच्छे श्रीसौभाग्यसागरसूरिशिष्येण श्रीहर्षकुलपण्डितवचःप्राप्तं प्रयोगरहस्येन उदयसौभाग्यगणिना लिखितायां हैमप्राकृतढुण्ढिकायां व्युत्पत्तिदीपिकाभिधानायां सर्वप्रयोगविशेषव्युत्पत्तिप्रकाशायां चतुर्थः पादः समर्थितः । श्रीमद्गुरुतपागच्छप्राज्यसाम्राज्यकारकाः । अभूवन् भुवनख्याताः लब्धिसागरसूरयः ॥१॥ तत्पट्टप्रकटाम्भोजे भजते राजहंसताम् । विजयन्तेऽधुना तेऽमी धनरत्नगुरूत्तमाः ॥२॥ श्रीलब्धिसागराचार्याः परिचर्यानुभावतः । प्राप्तोदयाः श्रीसौभाग्यसागराः सन्ति सूरयः ॥३॥ श्रीमल्लयुतपागच्छे विपश्विन्मौलिमण्डनम् । श्रीहर्षकुलनामानः पण्डिता गुणमण्डिताः ॥४॥ तत्पार्वेऽध्यैष्ट सकलं हैमप्राकृतलक्षणम् । सर्वप्रयोगव्युत्पत्तिरहस्यं लब्धवांश्च यः ॥५॥ सोऽहं सौभाग्यपाथोधिसुगुरुक्रमसेवया । सुधीरुदयसौभाग्यः प्राकृतदुण्ढिकामिमाम् ॥६॥ विश्वजातरिपुत्रातध्वान्तध्वंसनभास्करे । पार्वणेन्दुलसत्कीर्त्तिधवलीकृतभूतले ॥७॥ प्राणमत् प्रौढपृथ्वीशकोटिरद्योतितक्रमे । ... बहादरसुरत्राणे राज्यं पालयति क्षितौ ॥८॥ युग्मम् । श्रीस्तम्भतीर्थनगरे भूम्यतिथि (१५९१)सम्मिते । वर्षे हर्षेण, विहितो ग्रन्थोऽयं जयताच्चिरम् ॥९॥ ग्रन्थोऽयं नन्दतात् तावत् समग्रधरणीतले ।। सूर्याचन्द्रमसौ यावद् यावन्मेरुमहीधरः ॥१०॥ अज्ञानादथवा किञ्चिदनाभोगतयाऽथवा । यत् किञ्चिल्लिखितं शास्त्रोत्तीर्णैस्तच्छोध्यतां बुधाः॥११॥ ग्रन्थाग्रम् १०४००। [6092] आदि:- श्रीसूर्याय नमो विधाय विधिवत् सङ्घाय चित्तं रवौ दिव्यानामिव पारसीकवचसां कुर्वे प्रकाशं नवम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018007
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1965
Total Pages598
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy