SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ ३९०] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे श्रीजिनप्रवचनकाञ्चनचञ्चद्रुचिरनव्यकषदृषदः । शान्तसुधारससागरशारदवरविशदहिमरश्मेः ॥२॥ श्रीविजयानन्दगुरोः शिष्यभुजिष्येण हंसविजयेन । शिशुबोधार्थ विहितः सुयुक्तियुक्तोऽयमुद्धारः ॥३॥ त्रिभिर्विशेषकम् । निधि-नयन-नग-निशाकरप्रमिते (१८२९) वर्षे माघसितषष्ठ्याम् । श्रीसूर्यपुरे समभूत् संपूर्णोऽयं गरिष्ठार्थः ॥४॥ दुर्वादिकरिटिकोटीघटाकुम्भपाटने सिंहैः । श्रीविनयविजयवाचकचरणैः संशोधितश्चायम् ॥५॥ धीरविजयेन शिशुना प्रथमादशैं च परमया भक्त्या । अयमुद्धारो लिखित; सम्यगबुद्धिप्रबोधाय ॥६॥ यावत् तिष्ठति धरणीधरः यावन्नक्षत्रमण्डितो मेरुः । ... .. तावत् तिष्ठतु विश्वे विचक्षणैर्वाच्यमानोऽयम् ॥७॥ इति श्रीशब्दार्थचन्द्रिकोद्धारः संपूर्णः । लिखितश्चायं मुनिकेसरचन्द्रेण । संवत् १७६० वर्षे मार्गशीर्षासितसप्तम्यामिति मङ्गलम् । श्रीसूर्यपुरबिंदिरे । [6077] अन्तः- इति श्रीमलधारिशिष्यपण्डितनरचन्द्र विरचिते प्राकृतप्रबोधे चतुर्थः पादः। नानाविधैर्विधुरितां विबुधैः स्वबुद्धया तां रूपसिद्धिमखिलामवलोक्य शिष्यैः । अभ्यर्थितो मुनिरनुज्झितसम्प्रदाय मारम्भमेनमकरोन्नरचन्द्रनामा ।। ग्रन्थाग्रम् श्लोक १५५० ॥ संवत् १४७६ वर्षे अश्विनवदि १३ शनौ अघेह श्रीभृगुमण्डलकरणे लिखिता ॥ [6084] अन्तः- संवत् १६६९ वर्षे श्रीस्थंभतीर्थवास्तव्यवृद्धशाखायां प्राग्वाटज्ञातीयपा०सिंघजी उभयकुलविसुद्धा भार्या लबाईपुत्रदेवकारणदेवराज-वेणीदास-तलसीदासतन्मध्ये ज्येष्ठपुत्रपाब्देवकरणेन ज्ञानवृद्धयर्थं इदं पुस्तकं लिखापितम् ॥ [6085] आदिः-नमः श्रीहीरविजयसूरीश्वरशिष्यश्रीजयवन्तर्षिगणिचरणपङ्कजेभ्यो नमो नमः ।। यस्य क्रमनमस्कारः सारसौख्यविधायकः । स श्रीविश्वविभुर्जीयात् तमांसि नितमां मम ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018007
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1965
Total Pages598
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy