SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ प्रशस्त्यादिसंग्रहः । [३८१ प्रथिता नयसुन्दर इति नाम्ना वाचकवरेण च तस्याम् । सारस्वतस्थितानां सूत्राणां वार्त्तिकं त्वलिखत् ॥३७॥ श्रीसिद्धहेम-पाणिनिसम्मतिमाधाय सार्थका लिखिताः । ये साधवः प्रयोगास्ते शिशुहितहेतवे सन्तु ॥३८॥ चलमनसापि भ्रान्त्या लिखितं न्यूनाधिकं च तं दृष्ट्वा । हास्यो नाहं सद्भिः संशोध्येयं कृपावद्भिः ॥३९॥ गुहवक्त्र-हयर्धिन्दु(१७७६)प्रमितेऽब्दे शुक्लतिथिराकायाम् । सद्रूपरत्नमाला समर्थिता शुद्रपुष्या ॥४०॥ इति श्रीरूपरत्नमाला नयसुन्दरी सारस्वतव्याकरणटीका समाप्ता । पण्डितचक्रचूडामणिपं० श्री४श्रीजयरत्नगणिशिष्यमुनिराजरत्नेन स्वाध्ययनायेयं टीका लिखिता । [5981) आदि:- कल्याणं यः प्रदत्तात् प्रमदजलधरप्रत्यवायव्यपायः हेतुस्सेतुर्भवाब्धेः प्रभवदुरुत[र]ज्ञानशम्मैकमूर्त्तिः । रागद्वेषादिदोषव्यतिकररहितः सद्धितः श्रीनिवासः पुण्यः कारुण्यराशिलिमलगुणनिधिविश्वभृन्नाभिजन्मा ॥१॥ विप्रतिपत्तिविपत्तिध्वान्तवातप्रघातपटुर्नष्टम् । दुरितारातिविमई तेजः सारस्वतं जयतात् ॥२।। अनवद्यहृद्यपद्यैरय विदध्मः प्रदीपिका टीकाम् । सारस्वतसूत्राणां संशय]तिमिरव्यपोहाय ॥३॥ आदौ मध्ये विरामे च मङ्गलाचरणं बुधैः । शिष्टाचारत्वतः कार्य शास्त्राणां विघ्नसंहृते ॥४॥ यद्यमङ्गलमेव स्याच्छिष्टाचारोपमर्दनम् । मङ्गलं नाम तन्त्राणां नोररीक्रियते कुतः ॥५॥ निष्प्रत्यूहा समाप्तिर्मे शास्त्रस्य भवतादरः ।। इति कामनया शास्त्रकारो मङ्गलमग्रहीत् ॥६॥ मङ्गलायति मङ्गं च लाति तन्मङ्गलं मतम् । तत्कायें विघ्नशान्तेः स्यादसाधारणकारणम् ॥७॥ मङ्गशब्दोऽयमुद्दिष्टः पुण्यार्थस्याभिधायकः । तल्लातीत्युच्यते सद्भिर्मङ्गलं मङ्गलार्थिभिः ॥८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018007
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1965
Total Pages598
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy