SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ ३८२] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे तदुक्तम्- मङ्गलं पापमिति प्रोक्तमुपचारसमाश्रयात् । तद्विदां लयतीत्युक्तं मङ्गलं पण्डितैर्जनैः ॥९॥ अन्तः- येनाराजि महामहोभिरभितः श्रीमूलसङ्घाम्बरे ____ कर्तीति प्रबलान्धकारनिकरव्यापादनं कुर्वताम् । शान्तीभूतविरोधबोधदहनस्तद्धर्मकीर्तेर्मुनेः पट्टारामनिषिञ्चनैकजलदः श्रीशीलभूषो बभौ ॥१॥ , यः श्रीमद्गुरुशीलभूषणपदक्षीराम्बुधिं वर्द्धयन् विश्वासासुलसद्यशःकरभरं तन्वन्नतन्वा धृतिः । सन्तोपालिमया करोति जगतां चेतःस्थितं मोहजं जीयाच्छ्रीवरबोधभूषणविधुगीरच्छगच्छप्रभुः ।।२।। राजद्राजविराजमानचरणश्रीधर्मसद्भूषण स्तत्पट्टोदयभूधरद्युमणिना श्रीमद्यशोनन्दिना । व्याख्याने निरवद्यपद्यनिभृते सारस्वतस्योदिते वैषी तत्र समाप्तिताप्रकथनं सत्स्यादिवृत्तेरिदम् ॥३॥ इति श्रीसारस्वतस्य यशोनन्दिनीटीका समाप्ता ।। संवत् १६९५ वर्षे चैत्रशुदि ४ दिने शनिवासरे परमभट्टारकपुरन्दरप्रभुजगद्गुरुश्री५श्रीविजयदेवसूरीश्वरस्तशिष्यमुनिनयविजयलिखितं पठनार्थं गणिविनीतविजय[स्य । [5982] आदिः- श्रीमद्वागीश्वरीवक्त्राद् मूलसूत्रमवाप्य हि । कृतं सारस्वतं येन ततोऽनुभूतये नमः ॥१॥ अ इ उ ऋ ल समानाः सूत्रमष्टाक्षरं परम् । हस्व-दीर्घ-प्लुतभेदाः सवर्णा हि परस्परम् ॥२॥ अन्तः- अनेनानुक्रमेणैवापठीत् सूत्रं सरस्वती । ततः परमृजुश्चक्रे श्रीमद्भिरनुभूतिभिः ॥२२॥ विद्वच्चिन्तामणिग्रन्थं कण्ठपाठे पठन्ति ये । तेषां वक्त्रे नरीनति सर्वदा [हि सरस्वती ॥२३॥ श्रीविधिपक्षगच्छेशाः सूरिकल्याणसागराः । तेषां शिष्यैर्वराचार्यैः सूरिविनयसागरैः ॥२४॥ सारस्वतस्य सूत्राणां पद्यबन्धैर्विनिर्मितः । विद्वच्चिन्तामणिग्रन्थः कण्ठपाठस्य हेतवे ॥२५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018007
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1965
Total Pages598
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy