________________
३८० ]
Jain Education International
मुनिराज श्री पुण्यविजयानां हस्तप्रति संग्रहे ततो रत्नाकरः सूरिर्ज्ञानरत्नमहोदधिः । यतो रत्नाकराभिख्यां लेभे वृद्धतपागणः ॥ २२॥ शेखरः सर्वसूरीणामभूत् त्रिमुनिशेखरः । ततः श्रीधर्मदेवोऽस्तु धर्मदेव इवापरः ||२३||
तत्पट्टेऽभयसिंहाख्यसूरिस्त्वभयदानभाक् । यस्याद्यापि तपःश्लोको माति नो जगतीतले ||२४||
ततोऽतिशयसंपूर्णो जयात्तिलकसूरिराट् । येन सर्वत्र संप्राप्तं जयश्रीतिलकं क्षितौ ॥२५॥ तत्पट्टे सूरयः शश्वद्रत्नसिंहा दिदीपिरे । सद्भयः स्वेष्टप्रदानेन यैर्लब्ध्या गौतमायितम् ॥ २६॥ जायते स्माsहम्मदावादाधिपः शाहिरहम्मदः । तं प्रबोध्य महीपीठे चक्रिरे शासनोन्नतिम् ||२७|| सूरिर्भूरिगुणाधारस्तत्पट्टोदयवल्लभः ।
सागराः श्रुतवारीणां ततः श्रीज्ञानसागराः ॥ २८॥ तत्पट्टपूर्वदिग्भानुरुदयात् सागरो गुरुः । लब्धिभाजस्ततोऽभूवन् गुरवो लब्धिसागराः ॥२९॥ सूरिश्रीधनरत्नाह्वस्तेषां पट्टेदीदिपत् ।
प्रज्ञाजितमस्त्सूरिः सूरिनातनतक्रमः ॥३०॥
सूरिस्त्वमरत्नाहः पट्टपूर्वाचलांशुमान् ।
तत्सतीर्थ्यः स्फुरत्कीर्त्तिः तेजोरत्नः स सूरिराट् ॥३१॥ सूरि श्री देवरत्नाहो गुणाम ( णिष्व ) त्र गुणाधिपः । ततो धियां निधिर्देवसुन्दरः सुन्दराकृतिः ॥ ३२॥ साम्प्रतं विजयश्रीयुक् सूरिर्विजयसुन्दरः । सर्वे मयि कृपाभाजो भवन्तु भुवि विश्रुताः ॥३४॥ धनरत्नगुरोः शिष्या दक्षाः शश्वज्जिनोक्तिषु । रत्नत्रयधराः पूज्या भानुमेरुगणीश्वराः ॥३३॥ यैर्मादृशोऽपि मूर्खः सकृपैरकृषत दुरन्तभवकूपात् । तेषां मुमुक्षुमुख्याः शिष्या माणिक्यरत्नाह्वाः || ३५॥ पाठकपदप्रवीणाः शस्त्रकदम्बेष्वधीतिनस्तेषाम् । अनुजेनेयं टीका रूपादिमरत्नमालाह्वा ॥३६॥
For Private & Personal Use Only
www.jainelibrary.org