________________
[३७९
प्रशस्त्यादिसंग्रहः । सूरिश्रीमानतुङ्गश्च वीरसूरिस्ततो गुरुः । जयदेवगुरुर्देवानन्दसूरिश्च विक्रमः ॥७॥ नरसिंहगुरुस्तस्माच्छ्रीसमुद्रगुरुस्ततः । पुनः श्रीमानदेवश्च सूरिश्रीविबुधप्रभः ॥८॥ जयानन्दगुरुस्तस्माद् रविप्रभगणीश्वरः । यशोदेवगुरुः ख्यातस्ततः प्रद्युम्नसूरिराट् ॥९॥ पुनः श्रीमानदेवश्च विमलेन्दुमुनीश्वरः । सूरिरुद्योतनश्चासीत् सर्वदेवस्ततो गुरुः ॥१०॥ देवसूरिस्ततः सर्वदेवसूरिर्द्वितीयकः । सूरयो भूरयोऽभूवन्नेवं चान्द्रकुलेऽमले ॥११॥ सूरिर्धनेश्वरस्तत्र नग्नान् प्रतिबोधकृत् । प्रतिष्ठामकरोच्चैत्रपुरे वीरजिनेशितुः ॥१२॥ ततश्चेत्र इति स्वच्छगच्छः ख्यातः क्षमातले । चक्रुस्तत्रोदयं पूज्याः सूरयो भुवनेन्दवः ॥१३॥ तेषां विनेयाः सद्येयाः देवभद्रगुरूत्तमाः । कलौ सुविहिताग्रण्यः सत्कियोद्धारकारकाः ॥१४॥ यावज्जीवं तपः षष्ठाचामाम्लाभिग्रहग्रहाः । तपा इत्युल्लसत्कीर्ति लेभिरे लब्धिखानयः ॥१५॥ तेषां शिष्यास्त्रयस्तत्राद्या जगच्चन्द्रसूरयः । पूर्णचन्द्र इवोद्योतकारकाः काश्यपितले ॥१६॥ द्वितीयीकास्तु देवेन्द्रसूरयः श्रुतसागराः । तार्तीयीका गुणैस्त्वाद्याः सूरयोऽतिजयेन्दवः ॥१७॥ बृहत्तपा इत्यभिख्यां प्राप्ता राद्धान्तपारगाः । [वस्तुपाल]महामात्यहृदयाम्भोजभानवः ॥१८॥ तच्छिष्यः सुरवृक्षोऽभूद्विनेयार्थप्रदानतः । राद्धान्तवारां पारस्य पारगः पूज्यपूजितः ॥१९।। क्षेमकीर्तिर्गुरुर्मत्या विनेयीकृतवाक्पतिः । बृहत्कल्पं सदा प्रोक्तश्चक्रे टीकां सुविस्तराम् ॥२०॥ तत्पट्टाम्बरमार्तण्डश्चण्डः कारिभेदने । हेमकुम्भगुरुः ख्यातो हेमकुम्भ इवोज्ज्वलः ॥२१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org