________________
wvvvw
३७८ ] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे
अन्तः- इति बृहद्गच्छे वाचकश्रोविनयसुन्दर-शिष्यमेघरत्नविरचितायां सारस्वतदीपिकायां तद्धितार्थः । इति स्यादिप्रक्रिया सम्पूर्णा । ____ संवत् १८८६ कार्तिकशुदि ८ बुधवासरे पट्टीनगरे बिहारीऋषिणा लिपीकृता।
[5980] आदिः- युक्तं प्रणव-मायाभ्यां वाग्बीजं स्मृतिमानये ।
जडोऽपि पारमभ्येति यस्माद्वाङ्मयवारिधेः ॥१॥ गुरुमात्मविदं पूज्यं ध्यायामि शिवसुन्दरम् । सदोपकारिणं वन्दे भानुमेरुं च सत्कविम् ॥२॥ अथ त्यादिविभक्तिस्थं सूत्राणां वार्त्तिकं कियत् ।
लिख्यते रूपमालायां शिष्यप्रार्थनया मया ॥३॥ अन्तः- श्रीमद्वृद्धतपोगणे गणपतिः श्रीदेवभद्रक्रमात्
सूरिश्रीधनरत्नपङ्कजषडंविर्भानुमेरुर्बुधः । तच्छिष्यो नयसुन्दरः समलिखत् सारस्वते कृद्गतं
सूत्राणां वरवार्तिकं शिशुकृते श्रीरूपरत्नस्रजि ॥१॥ अथ प्रशस्तिः-श्रीवीरः स वेदेवडित्र(?)भुवनजनतातन्तयस्तत्त्वमूर्ति
श्चञ्चच्चामीकरत्विट् चरमजिनपतिभूरिभावादिभेत्ता । स्फूजर्याब्धिमन्थाः सततममृतभुग्गी:पतिः शक्रपूज्यः
श्रीमान् शन्तातिरस्तु प्रशमरसकृपासिन्धुराभिगम्यः ॥१॥ तच्छिष्यः सूरिमुख्यः प्रथमगणधरो गौतमो गां प्रदद्यात्
सद्बोधिं रातु रङ्गत्रिदशपतिनतः पञ्चमः श्रीसुधर्मा । ये चान्ये जम्बुमुख्याः श्रुतजलनिधयः शीललीलाप्रमीला. स्ते मह्यं सिद्धिभाजः सकलगणधरा ज्ञानलक्ष्मी दिशन्तु ॥२॥ ततः श्रीप्रभवस्वामी शय्यम्भवमुनीश्वरः । . यशोभद्रस्तु सम्भूति-भद्रबाहुगणाधिपौ ॥३॥ स्थूलभद्रस्तु तत्पट्टे महागिरि-सुहस्तिनौ । सूरी सुस्थित-सुप्रतिबद्धौ द्वौ गणधारिणौ ॥४॥ इन्द्रदिन्नस्तु तत्पट्टे दिन्नः सीहगिरिर्गुरुः । वज्रस्वामी वज्रसेनस्तत्पट्टे चन्द्रसूरिराट् ॥५॥ सामन्तभद्रसूरिश्च श्रीवृद्धो देवसूरिराट् । सूरिप्रद्योतनस्तस्मान्मानदेवगणीश्वरः ॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org