SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ प्रशस्त्यादिसंग्रहः । अज्ञातध्वान्तविध्वंसविधाने दीपिकानिभा । दीपिकेयं विजयतां वाच्यमाना बुधैश्चिरम् ॥९॥ स्वल्पस्य सिद्धस्य सुबोधकस्य सारस्वतव्याकरणस्य टीकाम् । सुबोधिकाख्यां रचयाञ्चकार सूरीश्वरः श्रीप्रभुचन्द्रकीर्तिः ॥१०॥ [ गुण-पक्ष-कला(१६२३)संख्ये वर्षे विक्रमभूपतेः । टीका सारस्वतस्येषा सुगमार्था विनिर्मिता ॥११॥] इति श्रीमन्नागपुरीयतपागच्छाधिराजभट्टारकश्रीचन्द्रकीर्त्तिसूरिविरचिता श्रीसारस्वतव्याकरणस्य दीपिका समाप्ता ।। अस्मिन् समाप्ते समाप्तोऽयमिति ग्रन्थः । स्फुटं सप्तसहस्राणि शतपञ्चमनुष्टुभाम् । सारस्वतस्य टीकायां ग्रन्थमानमिहोदितम् ॥ इति श्रीचन्द्रकीर्ति[टीका] समाप्ता ॥ वर्षे नन्द-भुजर्षि-चन्द्र(१७२९)प्रमिते मासे युजे सितगे(?) वारे जीवयुते भपौष्णसहिते पूर्णेव पूर्णादिने । ग्रामे श्रीमक्षुहकाख्यसुयशे श्रीसूरिराज्ये सदा लिखितेयं(?) श्रीचन्द्रकीतिसुबुधा रङ्गोदयेन यथा ॥ [5978] आदि:- राढावन्तं फणिपतिफण राजमानं समन्ताद् गीर्वाणेशैर्दनुजमहितं वन्द्यपादारविन्दम् । नत्वा पार्श्व गुरुमपि तथा मेघरत्नाभिधोऽहं टीकां कुर्वे विमलमनसं भारतीप्रक्रियां ताम् ॥१॥ कुमतिकुमतदैत्यक्रोधदावाग्निमेघो जनवनजविकाशाऽहर्मणी रम्यमूर्तिः । भवतु मयि विनीते विश्वविश्वप्रकाशी सजलजलददीप्तिः पार्श्वनाथः प्रसन्नः ॥२॥ यस्यादरात् पङ्किलमन्दप्रज्ञः प्राप्य प्रसादं वचसा निधिः स्यात् । भूयान्महामोहहरा शिशूनां सा भारती वाचि मम प्रसन्ना ॥३॥ वन्दारुक्षितिपोत्तमाङ्गमणिभिः संघृष्टपादाम्बुजाः शब्दाम्भोधिविवर्द्धनैकविधवो वैदग्ध्यवागीश्वराः। यावच्छासनमेव जैनमतुलं स्याद्वादविद्यान्वितं तावद्विश्वजने जयन्तविजयाद्याः श्रीधराः सुन्दराः ॥४॥ क्वासौ भारतीप्रक्रिया काहं मन्दो जडाशयः । तथापि धाष्टर्यमाधाय यथाप्रज्ञं प्रतन्यते ॥५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018007
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1965
Total Pages598
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy