________________
॥
३७६ ] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे
[5969] अन्तः- संवत् १६४० वर्षे शाके १५०५ प्रवर्त्तमाने पोषमासे श (सि)तेतरपक्षे पञ्चम्यां तिथौ ध्वजपतिवासरे श्रीथिरपु(प)द्रनगरमध्ये लिपीकृतं वणारीसमहिमासागरेण ।
[59743 अन्तः- सुबोधिकायां क्लुप्तायां सूरिश्रीचन्द्रकीर्तिभिः ।
कृत्प्रत्ययानां व्याख्यानं बभूव सुमनोहरम् ॥१॥ तीर्थे वीरजिनेश्वरस्य विदिते श्रीकौटिकाल्ये गणे
श्रीमच्चान्द्रकुले वटोद्भवबृहद्गच्छे गरिम्नान्विते । श्रीमन्नागपुरीयकाह्वयतपाप्राप्तावदातेऽधुना
स्फूर्जद्भरिगुणान्विता गणधरश्रेणी सदा राजते ॥२॥ वर्षे वेद-मुनीन्द्र-शङ्कर(११७४)मिते श्रीदेवसूरिः प्रभुः
जज्ञेऽभूत् तदनु प्रसिद्धमहिमा पद्मप्रभः सूरिराट् । तत्पट्टे प्रथितः प्रसन्नशशिभृत् सूरिः सतामादिमः ५ सूरीन्द्रास्तदनन्तरं गुणसमुद्राह्वा बभूवुर्बुधाः ॥३॥ तत्पट्टे जयशेखराख्यसुगुरुः श्रीवज्रसेनस्तत
स्तत्पट्टे गुरुहेमपूर्वतिलकः शुद्धक्रियोद्योतकः । तत्पट्टे प्रभुरत्नशेखरगुरुः सूरीश्वराणां वर
स्तत्पट्टाम्बुधिपूर्णचन्द्रसदृशः श्रीपूर्णचन्द्र प्रभुः ॥४॥ तत्पद्देऽजनि प्रेमहंससुगुरुः सर्वत्र जाग्रद्यशाः
___ आचार्या अपि रत्नसागरवरास्तत्पट्टपमार्यमा । श्रीमान् हेमसमुद्रसूरिरभवच्छ्रीहेमरत्नस्तत
स्तत्पट्टे प्रभुसोमरत्नगुरवः सूरीश्वराः सद्गुणाः ॥५॥ तत्पट्टोदयशैलहेलिरमलश्रीजेसवालान्वया
ऽलङ्कारः कलिकालदर्पदमनः श्रीराजरत्नप्रभुः । तत्पट्टे जितविश्ववादिनिवहा गच्छाधिपाः संप्रति
सूरिश्रीप्रभुचन्द्रकीर्तिगुरवो गाम्भीर्यधैर्याश्रयाः ॥६॥ .. तैरियं पद्मचन्द्राह्वोपाध्यायाभ्यर्थना कृता । शुभा सुबोधिकानाम्नी श्रीसारस्वतदीपिका ॥७॥ श्रीचन्द्रकीर्तिसूरीन्द्रपादाम्भोजमधुकरः । श्रीहर्षकीर्तिरिमां टीका प्रथमादर्शकेऽलिखत् ॥८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org