________________
प्रशस्त्यादिसंग्रहः ।
[३७५ शुक्लजनार्दनपुत्रो वच्छाचार्यस्य दौहित्रः । अभ्यस्तशब्दशास्त्रो भट्टोजीदीक्षितछात्रः ॥ हीराभिधानयतिव्रतमहसि प्राप्तनिजजन्मा । कविनीलकण्ठशर्मा निर्मितिमेनां विनिर्ममे शैवः ॥३॥ त्रि-नव-षडेक(१६९३)मितेऽब्देऽतिक्रान्ते विक्रमादित्ये । ... शुचिदर्श शिवपदयोर्निजकृतिरद्यापि नीलकण्ठेन ॥४॥
इति श्रीनीलकण्ठकविकल्पिता शब्दशोभा समाप्ता । संवत् १७०१ वर्षे शाके १५६६ प्रवर्त्तमाने माङ्गल्यप्रभासोत्तमाश्विनि मासे सितेतरपक्षे तिथिदशमीभौमवासरे श्रीबुरहानपुरमध्ये कृतचातुर्मासके श्रीपूर्णिमापक्षे लिखितं भ० विनयप्रभसूरिपठनार्थम् ।
[5954 ] अन्तः- इत्यनुभूतिस्वरूपेण कृता सारस्वतप्रक्रिया समाप्ता ।
संवत् १९२८ श्रा, वदि ७ रवौ सढोराख्यपत्तने लिखिता श्रीमत्पूज्याचार्यविमलचन्द्रजितः शिष्येण श्रीमद्विजयचन्द्रगणिना। ....
सिद्धयक्षि-निधि-भूवर्षे सप्तम्यां श्रावणे रवौ । कृष्णे श्रीमद्विजयेन गणिना लिखिता वरा ॥१॥
[5960 ] अन्तः- इति श्रीमत्परमहंसपरिव्राजकाचार्यानुभूतिस्वरूपाचार्यविरचितायां सारस्वतीप्रक्रियायां तृतीया वृत्तिः सम्पूर्णा ।
अहं च भाष्यकारश्च कुशाग्रीयधियावुभौ । नैव शब्दाम्बुधेः पारं किमन्ये जडबुद्धयः ॥१॥ तरणितारकनाथधनञ्जया नयनतां दधते जगदीश्वराः ।
सकृदपि स्मरणादघसंक्षयो भवति यस्य स पातु नृकेसरी ॥२॥
श्रीश्वेतद्वीपपतिवासुदेवाय नमः । श्रीबुद्रदेवाय नमः । श्रीसहजानन्दस्वामिने नमः ॥ लखितं जगदीशानन्दना नारायण वांचज्यो ।
[5961] अन्तः- संवत् १७२६ वर्षे आषाढवदि ८ दिने मुनि-उपस्थापना कृता पण्डितशान्तिविमलगणिनेति भद्रम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org