________________
३७४] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे
श्रीसिद्धहेमचन्द्र[क]व्याकरणोदितैर्गणैः । ग्रन्थो गणविवेकाख्यः स्वान्यस्मृत्यै विधीयते ॥३॥
अन्त:- इति पण्डितमण्डलीमण्डनमौलिरत्नपं० नन्दिरत्नगणिगुम्फिते गणविवेकग्रन्थे २५।२६।२७।२८ पादगणसङ्ग्रहो नाम सप्तमोऽधिकारः ॥ ग्रन्थानम् ६०७।
[5923] आदिः- पण्डितोत्तंसपं० श्रीविजयविमलगणिगुरुभ्यो नमः ।।
प्रणम्य ध्वस्तविघ्नौघं वीरं वृत्तिर्लघीयसी ।
न्यायसङ्ग्रहनाम्नोऽस्य न्यायसूत्रस्य लिख्यते ॥१॥
इह हि प्रभुश्रीहेमचन्द्राचार्यसमुच्चितानां सप्तपञ्चाशतो ५७ महोपाध्यायश्रीहेमहंसगणिसमुच्चितानां च चतुरशीते ८४ ायानां १४१ सङ्ग्रहरूपस्य महोपाध्यायश्रीहेमहंसगणिविरचितस्य न्यायसंग्रहनाम्नो न्यायसूत्रस्य स्वस्मृत्यर्थं व्याख्या प्रयोजनोदाहरणमात्रं लिख्यते । ज्ञापकं १, यथायोग्यमनित्यता २, तज्ज्ञापकं चेत्येतानि ३ तु महोपाध्यायश्रीहेमहंसगणिभिरेव विरचिताभ्यामेतबृहद्वृत्ति-तन्न्यासाभ्यां ज्ञेयानि । तत्र सूत्रादौ मङ्गलार्थं नमस्कारः ।।
वृ०अन्तः- इति तपागच्छाधिराजभट्टारकपुरन्दरश्रीआनन्दविमलसूरिशिष्यपण्डितोत्तंसपं० श्रीविजयविमलगणिशिष्यानन्दविजयगणिसमुद्धृतायां न्यायसंग्रहाभिधानन्यायसूत्रलघुवृत्तौ महोपाध्यायश्रीहेमहंसगणिसमुच्चितचतुरशीतिसङ्ख्यन्यायव्याख्या समाप्तिमगमत् । तत्समाप्तौ च समाप्तेयं न्यायसंग्रहलवुवृत्तिः ।
श्रीमति तपारव्यगच्छे सश्रीआनन्दविमलसूरीन्द्राः । उत्तमसंयमवन्तोऽभूवन् भूवलयविख्याताः ॥१॥ तेषां शिष्या विदिता जयन्ति सम्प्रति च गौतमप्रतिमाः । श्रीविजयविमलविबुधास्तच्छिष्यानन्दविजयेन ॥२॥ श्रीविक्रमभूपालाद् वर्षे शर-वह्नि-रस-शशि(१६३५)प्रमिते ।
स्वस्मृत्यर्थ लघ्वी न्यायानामुद्धृता विवृतिः ॥३॥ विशेषकमिदम् । इति हैमव्याकरणस्थन्यायसंग्रहरूपश्रीन्यायसंग्रहाभिधानन्यायसूत्रलघुवृत्तिः समाप्ता ।
[5951] आदिः- सानन्दं शतशो नत्वा शिवयोश्चरणद्वयम् ।
शब्दशोभां वयं कुर्मः शिशुव्युत्पत्तिसम्पदे ॥१॥ अन्तः- यद्यपि खलबहुलोर्वी न वृथाक्लेशस्तदप्येषः ।
तुण्यतु तदेव तेजो विलसति यस्य प्रसादोऽयम् ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.