SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ प्रशस्त्यादिसंग्रहः । [३४७ अन्यच्च येन कारितमतिरम्यं भव्यजनमनोहारि । सीमन्धरजिनबिम्बं रमणीये मोढचैत्यगृहे ॥२०॥ त्यागी भोगी देवगुर्वादिभक्तो जैने धर्मे प्रेमरागानुरक्तः । वार्धक्येऽभूदेक उद्योतनाह्वः पुत्रस्तस्य त्यक्तदुष्टद्विजिह्वः ॥२१॥ श्रीनेमिचन्द्रसूरेर्वाक्यात् तदनु स्वशिष्यभणनाच्च । उद्द्योतनसच्छ्रावकशि(वि)शेषसद्भक्तिवचनाच्च ॥२२॥ तत्रैव बृहद्गच्छे रत्नाकरसन्निभे प्रसूतेन । प्राकृतमणिकल्पेन श्रुतगुरुबहुमानसहितेन ॥२३॥ श्रीपदसंगतनाम्ना श्रीमज्जिनचन्द्रसूरिशिष्येण । रचिताऽऽम्रदेवमुनिपेन वृत्तिरेषा स्वबोधेन ॥२४॥ व्याख्याप्रज्ञप्ताविव लब्धवरायामिहापि सद्वत्तौ । श्रुतिसुखदवर्णरुचिरा विचित्रगम-भङ्गरमणीया ॥२५॥ सुव्यक्तमेकचत्वारिंशदनूना(४१) भवेयुरधिकाराः । तत्र सतानी च विचारश्रता अग्र्यवृत्ताश्च (१)॥२६॥ सत्स्वपि नानारूपेषु पूर्वकविभिर्विशिष्टमतिविभवैः । रचितेषु शास्त्रविवरणकथाप्रबन्धेषु सरसेषु ॥२७॥ कीदृगिदं मत्काव्यं तदपि ग्राह्य कृतप्रचुरकरुणैः । मयि वल्लभमाध्यस्थ्ये माध्यस्थ्यगुणान्वितैः सद्भिः ॥२८॥ छन्दो-लक्षणविकलं समयोत्तीर्णं च यत् किमपि लिखितम् । तच्छोध्यं विद्वद्भिः कृताञ्जलिः प्रार्थये भवतः ॥२९॥ अन्यच्च नेमिचन्द्रा गुणाकराः पार्श्वदेवनामानः । एते त्रयोऽपि गणयो विपश्चितो मुख्यनिजशिष्याः ॥३०॥ साहाय्यं कृतवन्तो मम लेखन-शोधनादिकृत्येषु । आधानोद्धरणे च प्रमादविकलाः कलाकुशलाः ॥३१॥ नवत्या युक्तेषु प्रथितयशसो विक्रमनृपा च्छतेषु क्रान्तेषु त्रिनयनसमानेषु शरदाम् । अजय्ये सौराज्ये जयति जयसिंहस्य नृपते रियं स्थानीयेऽगाद् धवलकपुरे सिद्धि पदवीम् ॥३२॥ श्रेष्ठियशोनागस्याऽऽरब्धा वसताववस्थितैः सद्भिः । वसतां सम्यगवसिता वसतावच्छुप्तसत्कायाम् ॥३३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018007
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1965
Total Pages598
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy