________________
३४८
· मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे भुवनानीव चतुर्दश धातुर्मम रम्यवर्णपदभाञ्जि । अक्षरगणनाद् ग्रन्थो जातोऽनुष्टुप्सहस्राणि ॥३४॥ मानसगर्भे स्थित्वा लक्षणयुगयं सपादनवमासैः । आख्यानकमणिकोशः सुत इव समपाचि सद्वृत्तिः ॥३५।। यावच्चन्द्रश्च सूर्यश्च यावन्मेर्महीतलम् ।
स्वर्गापवर्गवत् तावन्नन्द्यादेषाऽपि मत्कृतिः ॥३६॥
ग्रन्थाग्रम् १४००० । इति श्रीमदाम्रदेवसूरिविरचितवृत्तावाख्यानकमणिकोशवृत्तिप्रशस्तिः समाप्तेति ।
शिवमस्तु सर्वजगतः परहितनिरता भवन्तु भूतगणाः ।
दोषाः प्रयान्तु नाशं सर्वत्र सुखी भवतु लोकः ॥१॥
स्वस्ति श्रीनृपविक्रमार्कसंवति २००२ वर्षे पौषशुक्लप्रतिपत्तिथौ शुक्रवासरे अणहिलपुरपत्तनान्तर्गत-कसुंबीयावाडानिवासश्रेष्ठिवर्यगोपालचन्द्रात्मज- श्रेष्ठिलल्लुचन्द्रसुपुत्र्या स्वपितृगृहनिवासिन्या भगवतीबहेननाम्न्या स्वजननीरुक्मिणीबाई तथा स्वभ्रातृयुगल-भाईश्रीजीवणलाल-तत्पत्नीचन्द्रावतीबहेन-भाईश्रीरोहितलाल-तत्पत्नी-वसुमती । तथा निजात्मजहीरालालप्रमुखस्ववृद्धकुटुम्बपरिवृतया अष्टाहिकातपः-षोडशोपवासप्रभृतितपःसमाप्तौ स्वज्ञानावरणीयकर्मनिर्जरणार्थं विद्वन्मुनिजनाध्ययनवाचनाद्यर्थं च । आचार्यश्रीआम्रदेवसूरिसंकलितटीकासंवलितः आचार्यश्रीनेमिचन्द्रसूरिविनिर्मित आख्यानकमणिकोशाख्योऽयं महाग्रन्थोऽलेखि । उपदीकृतश्चायं धर्मवात्सल्यं धर्ममातुष्वसृभावं च विभूत्याऽनया स्वधर्मभागिनेयभावं बिनते । संविग्नशाखीयाऽऽद्याचार्य-पाञ्चालदेशोद्धारक-तपोगच्छाधिराज-श्रीमद्विजयानन्दसूरिपुरन्दरान्तेवासि-- पत्तनादिजैनज्ञानभाण्डागारोद्धारक-प्रवर्तकश्रीकान्तिविजयविनेयाणुः जिनप्रवचनलेखनसंशोधनप्रवीण-पत्तन-लींबडी-चटपद्रादिनगरस्थितमहाज्ञानकोशोद्धारक- व्यवस्थापकआत्मानन्दजैनग्रन्थमालासंपादक-मुनिचतुरविजयलघुशिष्याय मुनिपुण्यविजयाय। लिपीकृतश्चायं ग्रन्थाऽणहिल्लपुरपतनस्थ-वागोलपाटकनिवासिना लेखकवरेण भोजकज्ञातीयेन ठाकोरपुनमचन्द्रात्मजेन चीमनलालेनेति । वर्धतां श्रीश्रमणवीरवर्धमानस्य प्रवचनम् । जयतु श्रीसंघभट्टारकः भद्रं भवतु एतद्ग्रन्थलिखन-लेखनवाचनाध्यापनश्रवणश्रावणतत्पराणां महानुभावानां भव्यसत्त्वानाम् ।
सूर्याचन्द्रमसौ यावद् भ्रमतो जगतीतले । विद्वद्भिर्वाच्यमानोऽसौ तावन्नन्दतु पुस्तकः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org