________________
प्रशस्त्यादिसंग्रहः ।
[३४५ मा-शङ्करस्तु हरिस्त्रिखण्डविजयी भ्राताऽस्ति ते सर्वदा(?)
भामाद्याभिरितीरितः स्मितमुखो नेमिर्वशी पातु वः ॥१॥ अन्तः- परिषदि रसप्रियायां रसावतारार्थमन्तरकथौघम् । .
मलधारिगच्छनाथः सूरिश्रीराजशेखरः कृतवान् ॥१॥ द्विः पूर्वाई गीतिः षष्टिर्मात्रा व्याख्या मुनीन्द्राणाम् । चातुर्विद्यावतारासु पूजासु वर्णपुष्पस्रज इव फलिनी भवन्त्वेताः (१) ॥२॥
सुगमं नवरं केवलं एता इति अन्तरकथाः प्रक्रमायातत्वात् । अन्तरकथासङग्रहोऽयं नाम ग्रन्थः । औदीच्यज्ञातीय आचार्यकालासुतश्रीवत्सलिखितम् ॥
[5470] आदिः- नमिऊण जिणं वीरं सुरमहियं केवलिं पवरवाणिं ।
___ अक्खाणयमणिकोसं भव्वजणविबोहयं वोच्छं ॥१॥ अन्तः- अक्खाणयमणिकोसं एयं जो पठइ कुणइ जहजोगं ।
देविंदसाहुमहियं अइरु सो लहइ अपवग्गं । कृतिरियं सैद्धान्तिकशिरोमणिश्रीनेमिचन्द्रसूरेरिति आख्यानकमणिकोशवृत्तिः समाप्ता । वृ० अन्तः- वृत्तिं विधाय यदिमां महतीं मयाऽऽप्तं पुण्यं पवित्रितजगत्रयचित्तवृत्ति ।
तेनाशु भव्यनिवहो लभतां भवाब्धौ सद्यानपात्रमिव बन्धुरबोधिबीजम् ॥१॥ प्रशस्तिः- ज्ञानादिरत्नवसतिर्जनमान्यलक्ष्मीजन्माग्रभूमिरभितो बहुसत्त्वसेव्यः ।
निधीतकर्ममलनिर्मलधर्मनीरः क्षोणीभृदाश्रितगरिष्ठगभीरमध्यः ॥१॥ अच्युतप्रवणावासो मर्यादाऽनतिवर्तकः । अस्ति स्वच्छो बृहद्गच्छः श्रीमान् नाथ इवाम्भसाम् ॥२॥ इति नीरधितुल्यगुणे दयासुधापास्तजन्मरुगमरणे । क्वचिदतिशायिनि समये शिष्टाः! निशमयत यज्जातम् ॥३॥ मुनिविबुधधृतजिनमतमन्दरमथिमथ्यमानतन्मध्यात् ।
स्फूर्जन्महाप्रभावः प्रादुरभूद् रम्यरत्नचयः ॥४॥ तथाहि-- श्रीदेवसूरिः सुमनःसमृद्धः समुल्लसत्सत्फलपत्रशाखः ।
कुतोऽप्यथो आविरभूदमुष्मात् सुरावगीतोपचिपारिजातः ॥५॥ अनेकविकृतिक्रियाकुटिलकर्मरूपामयाऽपहारकरणक्षमः श्रुतिविचारदक्षः शुचिः । प्रवृद्धकरुणामृतस्समुदपादि धन्वन्तरिः श्रियां पदमनागसामजितसूरिर्यः सताम् ॥६॥
रुचिरचरणयोगाद् दुर्धरै रावतोऽभूदनुपममदवारिप्रोल्लसत्कीर्तिघण्टः । प्रकटितसकलाङ्गो मोहसैन्याप्रधृष्यो विबुधपतिनिषेव्यः श्रीमदानन्दसूरिः ॥७॥
४४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org