SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ ३४४ ] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे स्वस्ति संवत् १५०७ वर्षे ज्येष्ठशुदि ९ नवम्यां तिथौ सोमदिनेऽयेह घनौघनगरस्थितो श्रीरायकालज्ञातीयपण्डित अंगासुतरोहोगदत्तेन शुकसप्ततिकथा परोपकाराय लिखिता एवं कथा ७० लिखिताः । [5462 ] अन्तः- शृण्वन्ति ये कथामेनां विचक्षणजनप्रियाम् । भवन्ति सुखिनो नित्यमत्यन्तानन्दपूरिताः ॥१०॥ पुराऽभवच्छीमलधारिगच्छे विद्याब्धिसूरिर्विदितः पृथिव्याम् । कीर्तिर्यदीया धवलीकरोति भूमण्डलं क्षिप्रविचित्रमेतत् ॥११॥ पट्टे तदीये गुणसुन्दराख्यः सूरीश्वरो मन्मथमानहर्ता । दुर्वादिवृन्दप्रबलान्धकारोष्णांशुर्विभातीन्दुरिव स्वचेताः ॥१२॥ तत्पट्टभूषणमनङ्गजयप्रवीणः श्रीसर्वसुन्दरगुरुर्विदितो विभाति । सच्छास्त्रविन्निखिलभव्यजनाब्जराजीसंजीवनौषधमशेषगुणैकगेहम् ॥१३॥ तेनेयं रचिता कथा गगन-भू-बाणेन्दुसंवत्सरे (१५१०) माघे मासि नवेन्दुगोशुचितरेऽभीष्टे जनानां भृशम् । पञ्चम्यां भृगुवासरे बहुविधादुद्धृत्य शास्त्रान्तराद्। दुर्गे मण्डपनाम्नि पण्डितमुखे भूयात् सदा शाश्वती ॥१४॥ इति मलधारिश्रीसर्वसुन्दरसूरिविरचितायां हंसराज-बछ(त्स)राजकथायां राज्यादिवर्णणो नाम पञ्चमो विश्रामः । एवं ग्रन्थाग्रन्थश्लोकसङ्ख्या ११३१, अक्षर ८ । संवत् १७१६ वर्षे अश्विनशुदि तृतीया भृगुवासरे लिषितं बालालाऋषिणा तलवंडीग्राममध्ये । [5467] आदिः- समकार्ये हि सर्वस्य सर्वे सन्ति सहायकाः । विषमे न पुनः कश्चिद् धनदश्रेष्ठिनो यथा ॥१॥ अन्तः- मूर्खशिष्यः स्वकार्याय गुरुणा स्वहितैषिणा । प्रेष्यो नैवात्र भेदाख्यौ जटिनो हि निदर्शनम् ॥३४॥ इति श्रीभरटकद्वात्रिंशिका समाप्ता । [5468] आदिः- यन्नेयामपि कामिनीं परिणयत्यभ्यर्थ्यमानोऽप्यलं तन्नूनं गृहभारकातरतया भग्नोधमो देवरः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018007
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1965
Total Pages598
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy