SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ प्रशस्त्यादिसंग्रहः । [३४३ अकबरनृपाधिनृपतौ विजयिनि शर-भुवनसम्मिते वर्षे (१६५७) । श्रीमल्लाभपुरीयं प्राकाशि परा पुरः सुधियाम् ॥३१॥ ॥ इति श्री दमयन्ती]चम्पूवृत्तिः समाप्ता ॥ तत्समाप्तौ सम्पूर्णा सारस्वतीति नाम्नी वृत्तिरियम् ॥ लिखिता च संवत् १७३४ वर्षे फाल्गुनादितृतीयायां बुधे सा च वाच्यमाना चिरं नन्दतात् श्रीयोधपुरे ।। [5214] अन्तः- इति विविधवित्तौवेशविध्वस्तनिद्रः सजलजडिममीलत्पक्ष्मचक्षुर्दधानः । हरचरणसरोजद्वन्द्वमाधाय चित्ते नृपतिरुभयसंगी सत्रिया मामनैषीत् ॥४९॥ इति श्रीचम्पूकथासूत्रं समाप्तम् । लिखितं तपाश्रीगच्छशृङ्गार-चतुर्दशमहाविद्याभृङ्गार- जगदद्भुतविभवभूमीधवसभाविदितविद्यामदोन्मादिकुवादिवृन्दवृन्दारककमनीयवादसक(शक्रा)गार-कलिकालगौतमावतार-भट्टारकप्रभुपुरन्दर-श्रीश्रीश्रीसुधानन्दसूरीश्वरचरणकमलरोलम्बलीलामालम्बमान-सकलपण्डितप्रकाण्डमण्डलीलब्धमानसर्वविबुधशिरोरत्नप्रत्न पं० सुमतिरत्नगणि-शिष्यभुजिष्यपं०इन्द्ररत्नगणिपादपद्मोपजीविना क्षेमदेवगणिना । संवत् १५३४ वर्षे मार्गशीर्षमासे वदि ११ दिने रविवारे सकलनगरप्रवरे श्रीमति राजपुरनगरे भद्रं भवतु श्रीश्रमणसंघस्य । नाक्षराणि पठता किमपाठि । [5368] अन्तः- विशालराजसूरीशसुधाभूषणसद्गुरोः । शिष्येण जिनसूरेण सकथा याऽकृथा यथा ॥१३॥ " इति नियमपालने श्रीमन्मथपुत्रराजरूपसेनकथा । संवत् १७[०] ४ वर्ष आषाढमासे शुक्लपक्षे नवम्यां तिथौ गुरुवारे आमृणिनगरे मुनिराजमाणिक्यः(क्येन) लिखितम् ॥ [5413] अन्तः- श्रीमेरुतुङ्गसुगुरुप्रणिधानतः श्रीमाणिक्यसुन्दर इमां शुकराजसत्काम् । नव्यां कथां रचयति स्म सुविस्मयां श्रीशत्रुञ्जयाख्यगिरिगौरवगौरवर्णाम् ॥१॥ इति श्रीशुकराजकथा समाप्ता । ग्रन्थसङ्ख्या पञ्चशतषष्टिः । संवत् १७५७ वर्षे कात्तिकशुदि १० रविवासरे सकलवाचकचक्रचूडामणिमहोपाध्यायश्री ५ तेजचन्द्रगणि-शिष्य पं०ताराचन्द्र-पं०तत्त्वचन्द्रगणि-तशिष्यमुनिकेसरचन्द्रलिखितं धीणोजनामे ।। [5423] अन्त:- सप्ततिकथानकं समाप्तम् । शुकसप्ततेरुद्धारः समाप्तः। ग्रन्थसजाया १४०० चतुर्दशशतानि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018007
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1965
Total Pages598
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy