________________
३४२ ]
मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे सरस्वत्या प्रणीतायां श्रीचम्प्वां कृतसंविदि । अन्मया वितथं प्रोक्तं मतिमान्धेन चान्यथा ॥१७॥ सद्वयाख्यां कुर्वता सन्तोऽनुग्रहं मयि धीधनाः । तत्कृत्वोत्सारयन्त्वार्या माऽवजानन्तु किञ्चन ॥१८॥ युग्मम् । गच्छतः स्खलनं क्वापि भवत्येव प्रमादतः । हसन्ति दुर्जनास्तत्र समादधति सज्जनाः ॥१९॥ । आधुनिकबुधविनिर्मितमेतद्वयाख्यानमिति विमृश्येह । माऽवज्ञां कुरुत बुधा ग्रन्थान् संवीक्ष्य यदृब्धम् ।।२०।। श्रीफलवर्द्धिकपार्श्वश्रीमज्जिनदत्त-कुशलसूरीणाम् । सौम्यदृशा पठतामिह शुभार्थदा वृत्तिरेषा स्तात् ॥२१॥ वैयाकरणविशिष्टैः शिष्टैः सदसद्विवेकमतिपुष्टैः । रत्ननिधानैर्वाचकमुख्यैर्दक्षरशोधीयम् ॥२२॥ न येषु देशेषु विशिष्टधर्मवार्ताऽपि कर्णातिथिता बभाज । येन प्रजापालनतत्परेण प्रवर्तेत तेषु न विशुद्धधर्मः ॥२३॥ अनार्या अपि देशाः सद्धर्मभावनयाऽनया । येनार्या विहिता यद्वत्तिल्लाः पुष्पैः सुवासिताः ॥२४॥ दोषापहारात्तमसो विनाशनात् प्रकाशनान्न्यायपथस्य भूतले । श्रीसूर्यसेवाकरणानुषङ्गिणा श्रीसाहिना येन कृतं महाद्भुतम् ॥२५॥ गवादिप्राणिसंघातघातस्य प्रतिषेधनात् । येन कान्ता दया कान्ता सौभाग्यैकमठीकृता ॥२६॥ स्वप्नेऽपि सज्जनाः सर्वे यस्येमामाशिष ददुः । त्वं पालय चिरं राज्यं यत्कृपावारिवारिधिः ॥२७॥ यस्य राज्ञः प्रसत्त्याऽमी धर्म कुर्वन्ति साधवः । तस्माद् यद्विजयो नित्यं यतो धर्मस्ततो जयः ॥२८॥ यस्य नाम्नि विराजन्ते विष्णु-ब्रह्म-महेश्वराः। तेनात्राकबरेत्याख्या ख्याता सर्वत्र भूतले ॥२९॥ विबुधश्रेणिविराजितसविधे वरनन्दनश्रियामुदिते । कृतगोरक्षे दक्षे शुभनयन इव त्रिदिवनाथे ॥३०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org