________________
[३४१
प्रशस्त्यादिसंग्रहः । युगप्रधानेषु महाप्रभावश्रियो निधानेषु विशुद्धबुद्धिषु । विराजमानेषु जनेषु तेषु स्तुत्येषु सन्छोजिनचन्द्रसूरिषु ॥४॥ श्रीक्षेमशाखासु सुधातिशायिरसप्रवेशाः समवाग्विलासाः । श्रीक्षेमराजा भुवि पारिजातफलोपमाः पाठकलक्ष्मिलक्ष्याः ॥५॥ जयन्तु तेषां च वरा विनेयाः सद्भागधेयाः स्वगुणैरमेयाः । चत्वार आसन् विमलप्रबोधा विधेर्नु वेदा इव मूर्तिमन्तः ॥६॥ शिवसुन्दरनामानो विलसत्संवेगकनकतिलकाह्वाः। . पाठकपदप्रधाना उभयेऽपि प्राप्तकीर्त्तिभराः ॥७॥ सदयोदयास्तृतीयाः सदयाः सततं दयातिलकगणयः । वाग्गुरवो वाग्गुरवस्तुर्याः शिष्याश्च विजयन्ते ॥८॥ श्रीमत्प्रमोदमाणिक्यनामधेयाः सुसाधुवृत्तधराः ।। भाग्याभ्यधिकास्तेषां विद्यन्तेऽमी पुनः शिष्याः ॥९॥ चत्वारोऽप्यम्बुधिवद् गभीराक्षोभ्यतादिगुणयुक्ताः । न च जडसंगतिभाजो भवन्ति येऽस्मिन् महीपीठे ॥१०॥ वाग्गुरुगुणरङ्गाख्या रङ्गद्गुरुभक्तिभाग्दयारङ्गाः । श्रीजयसोमाः सोमाननास्तथा क्षेमसोमाह्वाः ॥११॥ तत्र श्रीजयसोमकल्पतरवोऽमेयप्रमाशेमुषी
शाखालीढवरागमाम्बरतलाः सत्पात्रशोभावहाः । कीर्तिप्राप्तफलाः कलोत्तरकलाः सन्तीह मत्पाठकाः
श्रीमन्तो गुरवो रवोदितरसैः संप्रीणितप्राणिनः ॥१२॥ तेषां शिष्यो मुख्यो गुणविनयाख्यो विमृश्य शास्त्राणि । सत्पाणिनीय-हैमानेकार्थोणादिमुख्यानि ॥१३॥ श्रीचण्डपालरचितं दुर्गपदप्रकटनैकसितकक्षम् । श्रीचम्पूटिप्पनकं पुनः सहाई समुपजीव्य ॥१४॥ श्रीविक्रमवंशोद्भवसद्विक्रमराजसिंहनृपराज्ये । सत्कर्मकर्मचन्द्राभिधधीसखधुर्यसंधार्ये ।।१५।। श्रीमद्विक्रमभूपतेः स्वरसरस्वत्तर्कशक्रप्रमा
ख्यातायां शरदि प्रमोदविसरभ्राजिष्णुपौराकुले । श्रीसेरुन्नकनाम्नि भद्रनगरेऽर्हच्चैत्यशोभाधरे .
चक्रे श्रीदमयन्त्युदारचरिते टीका महार्थी सुधीः ॥१६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org