________________
३४० ] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे
अन्तः- समाप्तमिदं निर्भयभीमनामनाटकं व्यायोगः । कृतिरियं महाकवेः श्रीहेमचन्द्राचार्य-शिष्यरत्नस्य श्रीरामचन्द्रस्य संवत् १४७९ वर्षे आषाढे बहुलैकादश्यां सोमवारे मृगशिरोनक्षत्रे श्रीमल्लिकवाहनस्थाने श्रीमुबारखशाहिविजयराज्ये दीक्षितान्वयेन हरिचन्द्रतनुजेन जनार्दनव्यासेन निर्भयभीमनाटकं लिखितम् ।
[5213] आदिः- धा(ध्या)त्वा सरस्वती देवीं विबुधानन्ददायिनीम् ।
सुवर्णी पुण्यरूपां तामलङ्कारविराजिताम् ।।१।। पादाब्जाङ्गुलिसत्कनिर्मलनखादशेषु लोकत्रयी
निश्शेषा प्रतिबिम्बितान्तरमुदा यस्या नमन्ती प्रभोः । अप्राप्ता परभागसंसृतिभयाल्लीनेव दीना सती
तं पाच फलवर्द्धिकेश्वरमहं नत्वोपसर्गापहम् ॥२॥ प्रौढं प्रौढयुगप्रधानपदसाम्राज्यं प्रतीतं पुरा
देवोक्तया भुवि नागदेवभविकश्राद्भस्य साक्षात्पुरः । योगिन्योऽपि च येन मन्त्रमहिमाप्रागल्भ्यतो जिग्यिरे ।
स्तुत्वा श्रीजिनदत्तसूरिमनधं तीव्रप्रतापारुणम् ॥३॥ जिनकुशलं कृतकुशलं प्रारब्धविशेषशशास्त्रसिद्धिकरम् । प्रणिधाय मनसि मानसमिव शुचिहृदयं महामानम् ॥४॥ श्रीचण्डपालोऽत्र कियत्पदानां यद्यप्यनिन्द्यां विवृतिं चकार । तथापि तच्छेषपदार्थसार्थप्रकाशनात्तां विवृणोमि चम्पूम् ॥५॥
अन्तः- इति श्रीवाचनाचार्यश्रीप्रमोदमाणिक्यगणि-शिष्यश्रीजयसोमगणितच्छिष्यश्रीगुणविनयगणिविरचितायां श्रीत्रिविक्रमभट्टविरचितश्रीदमयन्तीकथाविवृतौ सप्तम उच्छ्वासः समाप्तः ॥७॥
श्रीमत्खरतरगच्छे स्वच्छेऽभूवन् नवाङ्गवृत्तिकराः । श्रीमदभयदेवाख्याः पुरा वराचार्यगुणमुख्याः ॥१॥ तेषां क्रमेण पट्टे विख्याता लक्षसंख्यगुणदक्षाः । रेजुर्जलधिगभीराः श्रीजिनमाणिक्यसूरिवराः ॥२॥ तत्पट्टे विशदप्रभाकरकरस्फूर्जप्रतापोद्धराः
वादप्राप्तजया धरापतिसदःपीठे सदा सुन्दराः । तत्तत्कृत्यविधानतो भुवि चमत्कार विशांचक्रिरे
चेतस्सु प्रथमागमाधिगमतो लब्धप्रतिष्ठाश्च ये ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org