SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ .. [३३९ प्रशस्त्यादिसंग्रहः । काव्यम्- आशावासः समयसमिधां संचयैः श्रीयमाने स्त्रीनिर्वाणोचितशुचिवचश्चातुरी चित्रभानौ । प्राजापत्यं प्रथयति सति सिद्धराजे जयश्री यस्योद्वाहं व्यधित सदा नन्दताद् देवसूरिः ॥४॥ इति मुद्रितकुमुदचन्द्रनाटके किञ्चित्शेषभिन्नवार्ता लिखिता लेशतः । श्रीः । [5202] अन्तः- इति निष्क्रान्ताः सर्वे विद्याधरचक्रवर्तित्वलाभो नाम पञ्चमोऽङ्कः । धवलयति कलाभिर्यावदिन्दुत्रिलोकी हरति तिमिरभारं भानुमानेष यावत् । । अभिनवचरितार्थ नाटकं तावदेतत् प्रथयतु जगति श्रीदेवचन्द्रस्य कीर्तिम् ॥१॥ जीयाज्जैनमतान्तरिक्षतरणिः प्रज्ञाहुताशारणिः ___लीलोन्मुद्रितशेषभाष्यसरणिः श्रेयःसुधासारणिः । सर्वाकारपरोपकारविपणिः श्रीचित्रचिन्तामणिः श्लोकाविष्कृतकीर्त्तिधौतधरणिः श्रीदेवचन्द्रो गणिः ॥ [5205] अन्तः- महाकइणो सिरिरायसेहरस्स सट्टयं सम्मत्तं ॥ संवत् भुवनशताधिकपक्षवर्षे मधुमासे असितपक्षे पञ्चम्यां तिथौ पिङ्गलवासरे अघेह श्रीमदणहिल्लपत्तने गूर्जरज्ञातीयमहं सारंगसुतवीरमगठनार्थ पुस्तिकेयमलेखि । (अन्यदीयहस्ताक्षरैरुल्लिखितमिदम्-) मन्त्रिसाङ्गाकेन गूर्जरज्ञातीयेन कर्पूरमञ्जरी प्रकरणपुस्तिका जिनहर्षगणीनां अर्पिता कुमरगिरौ। [5207] अन्तः- इति श्रीकर्पूरमञ्जरीसाटकावचूरिः समाप्तितां निन्ये । सकलसकलप्राप्तरूपमौलिमौलिमणिरुचिरञ्जिताहियमलपण्डितश्री १९ केसरविमलगणिचरणकमलयुगलचञ्चच्चञ्चरीकायमानमुनिनयविजयेन । आशुक्षणर्षिसितभानुमिते वर्षे बहुलमासे शुक्लेतरैकादशी कर्मवाटयां श्रीलालपुरे सूत्रवृत्तियुक्तं ग्रन्थातरं १२७० किञ्चित्समधिकानि ॥ [5208] आदिः- तपोभिर्दुस्तरैर्येन संतप्यात्मानमूर्जिताः । जिता रागादयस्तस्मै कस्मैचित् प्रणिदध्महे ॥ १ ॥ सूक्तयो रामचन्द्रस्य पूर्णेन्दुकलगीतयः । स्वातन्त्र्यमिष्टयोगं च पञ्चैता हर्षवृष्टयः ॥ १ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018007
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1965
Total Pages598
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy