SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ प्रशस्त्यादिसंग्रहः। तथापि श्रद्धामुग्धोऽहं नोपालभ्यः स्खलन्नपि । विशृङ्खालापि वाग्वृत्तिः श्रद्दधानस्य शोभते ॥ भक्तिं निश्चित्य चित्तेऽहं यथाज्ञातं तथा वचः । रचयामि प्रबन्धेषु प्रसादं कुरु वाणि! मे ॥ अन्तः-इति अमन्दजगदानन्ददायिनि आचार्यश्रीमेस्तुङ्गविरचिते देवाधिदेवमाहात्म्य-शास्त्रे श्रीस्तभननाथचरित्रे द्वात्रिंशत्प्रबन्धबन्धुरे द्वात्रिंशत्तमः प्रबन्धः समर्थितः । समाप्तं चेदं श्रीस्तम्भ[न]नाथचरितम् ।। स्वस्ति श्रीनृपविक्रमकालादेकोत्तरे कृतिम् । चतुर्दशशते वर्षे रवियोगे त्रयोदशे । १॥ कार्तिकमासे राकायां गुरुवारे स्थिरोदये । कल्याणकारणं स्तम्भनाथस्य चरितं मुदा ॥२॥ सूरिश्रीमेस्तुङ्गेण वादिहव्यकृशानुना । वादिवेश्याभुजङ्गेन श्वेतवस्त्रांहिरेणुना ॥३॥ येनेदं पठ्यते सर्वसमक्षं राजपर्षदि । अङ्गीकृत्य प्रतिज्ञानां सप्तकं च सुदुर्वहम् ॥ सभायां बाहुमुद्धृत्य जिनशासनवैरिणः । एकया वेलया सर्वे त्रियन्ते जयवादिना ॥ अन्यच्च- दम्भाद् वोद्भटवादिशेखरमतोपन्यासविन्यासत श्छेदाभ्युच्छदन्धकारपरशुर्वादीन्द्रवेश्यापतिः । स्याद्वादार्थविरोधिसुन्दरशिरःसंचारपञ्चाननः पत्रालम्बनमातनोति जगति श्रीमेरुतुङ्गो गुरुः । यस्येत्थंकीर्तिविलसति विदुषां मुखेषु । अन्यच्चइहोत्सूत्रं भवेत् किञ्चित् प्रमादात् पतितं मम । शोधयन्तु कृपां कृत्वा तदवा बहुश्रुताः ॥१॥ संवत् १४२४ वर्षे भाद्रपदकृष्णतृतीयायां गुरौ श्रीस्तम्भनेन्द्रप्रबन्धपुस्तकं लिखितम् । तपस्विगच्छनायकश्रीरत्नसागरसूरि-शिष्यगणिमिश्रपझकीर्तेः पण्डितमिश्रसाधुमूर्तिमिश्राणामुपरोधेन भक्त्या च । तत्त्वसार्थकसमाधिजन्मभिस्तापसैमुनिभिरस्ततामसैः । साम्प्रतं च विकले कलौ युगे शासनं जिनपतेर्विभूषितम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018007
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1965
Total Pages598
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy