SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ ३२०] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे शारदेन्दुकिरणैकसोदरैः साधुमूर्तिविलसद्गुणाकरैः ।। कं नरं विबुधवर्गशेखरं नो न रञ्जयति रङ्गसागरः ? ॥ नभ इव नभो विशालं सागर इव सागरस्तु गम्भीरः । . श्रीमदभयदेवगुरोः तव तप इव तव तपो जयति ।। [4969 ] आदिः- उद्यन्माणिक्यमालाबहलतरमिलन्निर्यदङ्करपूर ध्वस्तध्वान्तप्रतानाप्रतिमविरचितानुत्तरोत्तानचैत्यम् । काञ्चिल्लक्ष्मी जगाहे जलनिधिवसनाम्भोधिशायि प्रियाया चूडारत्नं महिपः शिरसि विनिहितं जळुनाभीभुवेव ॥१॥ अन्तः- यस्मिन्नुर्जस्वलश्रीक्षपितघनतमःकोटिविस्पष्टरोचिः सौवर्णस्तम्भमालाशितिमणिकिरण श्रेणिमिश्रान्तरालाः । श्रीमत्स्याद्वादिगेहे पुलकयति तनू कौतुकालोककानां बिभ्राणा नीलवासो दिवसपतिसुता प्रत्यनीका इवैते ॥१०३।। [4971] आदिः- भूत्यै तद्वदिव प्रमाणपटुभिःभिन यत् पार्यते . संकल्पैर्बहुधा न यत् कलुषतां नीतं मनाग् मानसैः । पर्यायैर्विविधैर्यदभ्युपगतं स्वाभीष्टदं सिद्धये प्रज्ञालैः सदलङ्घदक्षरमथ व्याघाति जैनं महः ॥१॥ अन्त:- अथ यावदहपतिशीतलरश्मिविश्वोपकारकृद् विजयते । नन्दतु हट्टपूतपौषधशाला तावदियं वरपौषधशाला ॥३७॥ [4972] अन्तः- आसीच्चण्डपमण्डितान्वयगुरुर्नागेन्द्रगच्छश्रिय चूडारत्नमयत्नसिद्धमहिमा सूरिमहेन्द्राभिधः । तस्माद्विश्वसनीयचारुचरितः श्रीशान्तिसूरिस्ततो प्यानन्दामरसूरियुग्ममुदयच्चन्द्रार्कदीप्रद्युतिः । ६९॥ श्रीजैनशासनवनीनवनीरवाहः श्रीमांस्ततोऽप्यघहरो हरिभद्रसूरिः । विद्यामदोन्मदगदेष्वनवद्यवैद्यः ख्यातस्ततो विजयसेनमुनीश्वरोऽयम् ॥७०॥ गुरोस्तस्याशिषां पात्रं सूरिरस्त्युदयप्रभः । मौक्तिकानीव सूक्तानि भान्ति यत्प्रतिभाम्बुधौ ।।७१।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018007
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1965
Total Pages598
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy