________________
३१६ ]
मुनिराज श्री पुण्यविजयानां हस्तप्रति संग्रहे आह्लादैकनिकेतनं सुमनसां दुष्कर्मणां दुर्लभः
श्रीमानेष तपागणः सुरतरु: सर्वोत्तमो भूतले ॥१॥ तत्र जगज्जनविश्रुतगुणगणरत्नाकरा गभीरतराः । श्रीराज विजयसूरिप्रवराः श्रुतजलधयो स्वा ( यश्चा) सन् ॥२॥ श्रीरत्नविजयसूरिस्ततो बभूवातिविततविशदयशाः । श्रीहीररत्नसूरिस्तस्मादासीज्जगद्वन्द्यः ||३||
येनान्तरध्वान्तभरं गवां भरैर्व्यपास्य वैशद्यमतानि भूभृताम् । श्रीहीररत्नादिमसूरिरुच्चकैरपूर्वसूरो न मुदेऽस्तु कस्य वै ॥ ४ ॥ तपागणाम्भोनिधिपूर्ण चन्द्रस्ततः किलासीज्जयरत्नसूरिः । श्रीभावरत्नाभिधसूरिरस्माज्जज्ञे जगज्जैत्रमहाप्रतापः ||५|| तत्पट्टशोभा तिलकायमानः श्रीदानरत्नः किल सूरिराजः । विराजते सम्प्रति सत्प्रभावः प्रभाभरोद्भासिमुखारविन्दः ||६|| श्री ही ररत्न सूरिमुख्याः शिष्यास्तु पण्डितप्रख्याः । श्रीलब्धिरत्नविबुधाः सुधामुधाकारिमधुरगिरः ॥ ७॥ श्री सिद्धिरत्नवाचकवर्याः पर्यायचारुतरचर्याः । पाठक पद प्रतिष्ठास्ततोऽभवन् हर्षरत्नाह्वाः ॥८॥ श्रीलक्ष्मी रत्ना ह्रास्तदाश्रयाः सकलपण्डितप्रवराः । श्रीन्या (ज्ञानरत्नपाठकमुख्याश्च ख्यातविशदगुणाः || ९ || तत्पादपङ्कजामलमधुवतो हंसरत्नमुनिरेनम् । श्रीमति राजद्रङ्गे प्रसादमासाद्य पार्श्वविभोः ॥ १०॥ शत्रुञ्जयमाहात्म्योल्लेखं व्यलिखद् विचार्य सुगमार्थम् । नयन-वसु-तुरंग-हिमकर(१७८२) वर्षे चाक्षयतृतीयायाम् ॥ मतिमान्धादनाभोगादितोऽत्र वितथं तु यन्मया लिखितम् । तच्चोपकारनिरतैः शोध्यं मध्यस्थगीतार्थैः ॥
प्रत्यक्षरगणनायामनुष्टुभां ग्रन्थमानमिह गदितम् ।
अष्टावेव सहस्राः शतानि पञ्चापि सार्द्धानि ॥ ग्रन्थाग्रन्थ - सर्वश्रेयोमूल भवदवनिर्वापणाम्बुधरपरलम् । सम्पदल्लिविवर्द्धनमिदमर्हच्छ्वसितं जयतात् ॥
Jain Education International
For Private & Personal Use Only
८५५० ।
www.jainelibrary.org