________________
प्रशस्त्यादिसंग्रहः ।
[ ३१५ समाप्तं मार्गशीर सुदि छ शुभं भवतु । संवत् १९६४ वर्षे मार्गशिरमासे पुरणमा ( पूर्णिमायां) लिपीकृतम् निर्वाणः सांमी नागौरमध्ये ।।
[4949] आदिः- श्रीमहावीरनिर्वाणात् संवत् ४७० विक्रमनृपोऽभूत् । विक्रमोत्पत्त्यादिस्वरूपं लोकप्रसिद्धम् । कासहृद्गच्छीयदेवमूर्तिसूरिकृतविक्रमादित्यनव्यचरित्रादिस्थं लिख्यते यथा-गूर्जरदेशे ताम्रवतीति प्रसिद्धे वेलाकूलपत्तने स लक्षः क्षमापतिः ० । अन्तः- -- इति विक्रमादित्योत्पत्तिसम्बन्धः ।
[4951] अन्तः- सौभाग्यनन्दिसूरीन्द्रकृतेऽधिकारके [ ? शुभे] ।
विमलस्य प्रबन्धेऽत्राधिकारोऽभूत्तुरीयकः ॥९॥ अष्ट-सप्त-तिथि(१५७८)प्रष्ठवत्सरे विक्रमार्कतः । कालुपुरे कथा कृताश्विन शुक्लाष्टमीतिथौ ॥१०॥ इति श्रीविमलस्य राज्याभिषेक गुरूपदेश-प्रासादकरणप्रतिष्ठादितुर्योऽधिकारः ।
इति श्रीविमलचरित्रं सम्पूर्णम् ।
[4955] आदिः- तथाहि-पूर्वं श्रीयुगादिजिनादेशा[त् ] सपादलक्षप्रमाणं नानाप्रभावमन्दिरं श्रीशत्रुञ्जयमाहात्म्यं पुण्डरीकगणधरेण कृतमभवत् । ततश्च श्रीसुधर्मस्वामिना दुःषमाकालोत्पन्नप्राणिनः स्वल्पायुषः स्वल्पबुद्रित्वात् तदवगाहनासमर्थांश्च विज्ञाय तदनुग्रहार्थं श्रीवीरजिनाज्ञया पुनश्चतुर्विंशतिसहस्रप्रमितं चक्रे । तदनु च श्रीविक्रमात् सप्तसप्त(? प्त्य)धिकचतुःशतवर्षेषु ४७७ गतेषु वलभीपुरे अष्टादशमहानृपतिसेवितपादारविन्दश्रीशत्रुञ्जयोद्धारकारकसुराष्ट्राधिपतेः श्रीशिलादित्यनृपस्याभ्यर्थनया राजगच्छैकमण्डन-बौद्धमदखण्डन-स्याद्वादविद्याविशारदश्रीधनेश्वरसूरिभिः तस्मात् सारमुद्धृत्य दशसहस्रप्रमाणश्रीशत्रुञ्जयमाहात्म्यं कृतम् । तच्चाधुना प्रवर्तते, परं साम्प्रतं तु तत्रापि गम्भीरार्थतया प्रायो मादृशा मन्दबुद्धयो मुह्यन्ति । ततस्तेषां सुखावबोधाय वार्ताप्रायं गद्यमयं तदुल्लेख लिखामि ।
अन्तः- इत्येष मयाऽल्पश्रुतेनापि मादृशानां अल्पश्रुतानां वाचनयोग्यं वार्ताप्रायगद्यमयं श्रीधनेश्वरसूरिकृतं मूलग्रन्थस्य उल्लेखरूपं श्रीशत्रुञ्जयमाहात्म्यं लिखितम् । यच्चात्र श्रुतविरुद्धं न्यूनाधिकं वा लिखितं तन्मे मिथ्यादुःकृतमस्तु । अथ ग्रन्थकृत्प्रशस्तिः
अस्ति स्वस्तिपदं सदुन्नतिलसद्विस्तारिशाखाभरः
सच्छायो दृढमूलपद्धतिरनुच्छेद्यो दुरात्मवजैः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org