SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ प्रशस्त्यादिसंग्रहः । स्वस्ति श्रियां धाम महोरगेन्द्र- पद्मावतीसेवितपादपद्मम् । अहम्मदावादपुरावतंसं श्रीपार्श्वनाथं प्रयतः प्रणौमि ॥ १ ॥ जीयात् स वीरो भुवनैकवीरो यच्छासनं सूर्यवदत्र चित्रम् । विभासयत्येव सतां मनांसि ग्रासास्तभावं न कदापि धत्ते ॥२॥ श्री गौतम गणधरं प्रणमामि नित्यं यन्नामतः किल सतां सुसमृद्धयः स्युः । श्रीमत्सुधर्मगणिरप्यनिशं स जीयाद् यस्य क्रमो विजयते खलु भारतेऽत्र ||३|| तच्छी सुधर्मग णिसन्ततिशोभनश्रीचन्द्रप्रभाभिधगुरुर्जयताच्चिरं सः । स्वीकृत्पयःसमयगां बत पूर्णमासीश्रीपौर्णिमेयगणमेनमिहोदधार ||४|| तत्पदृपङ्कजविबोधनसूर्यकल्पाः श्रीधर्मघोषगुरुराजवरा बभूवुः । तस्योरुपट्टकुमुदैकशशिप्रभाभाः श्रीसूरयः सुमतिभद्रवरा जयन्तु ||५|| तस्यान्वये सद्गुणरत्नराशिः श्री भीमवल्लीयकुलावतंसः । सदा स्फुरच्छुभ्रयशःप्रसारो जीयाच्चिरं श्रीजयचन्द्रसूरिः ||६|| ततः शशाङ्कोज्ज्वलकीर्त्तिभाजः श्रीभावचन्द्रा गुरवो बभूवुः । रेजुस्तदीयक्रमशो भवाः श्रीचारित्रचन्द्रा गुरवो गरिष्ठाः ||७|| तत्पहस्फुटपूर्विकाचलशिर[:] शृङ्गारसूरत्विष स्तर्क-व्याकरणागमाब्धिविलसच्छास्त्राब्धिपारस्पृशः । [ ३०१ विद्यारत्नकलाकलापकलितस्वान्ताः क्रियाशालिनः श्रीमत् श्रीमुनि चन्द्रसूरिगुरवो जीयासुरेते चिरम् ||८|| विद्यासुन्दरभावनां कलयितुं प्रौद्योतयद्धृङ्गतं विद्यारत्नमभीष्टदेव-गुरुपत्पमै कसांनिध्यता । तच्छिष्यो रचयाञ्चकार चरितं कूम्र्म्मासु [त ] स्येदकं विद्यारत्न इति प्रसिद्ध कलितः सप्ताश्व-तिथ्यब्दके (१५७७) ||९|| चेतो जहर्ष कुलकं समवी (वे )क्ष्य येषां कूम्र्म्मासुतस्य समशोधिं च यैरिदं तु । हर्षकुलपण्डितराजवर्या जीयासुरात्मगुरुराजयुताः सदैव ॥ १०॥ शास्त्राणि सन्ति बहुकानि च वापि लोके विद्वत्कृतानि विबुधैरिदकं तथापि । वाच्यं विधाय मयकि प्रसभं प्रसत्तिं कूम्र्म्माकुमारचरितं सुगमार्थबोधम् ॥ ११ ॥ कारक-श्रोतृकर्तॄणां देव-गुर्वोः प्रसादतः । वाचकस्याप्यदो भूयान्मङ्गलाय पदे पदे ॥ १२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018007
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1965
Total Pages598
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy