SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ [२९९ प्रशस्त्यादिसंग्रहः । एतस्यास्तनयौ साधुनेत्रवत् सरलाकृती । सुव्यापारौ सदा लोके स्त एतौ हेम-जैत्रलौ ॥३७॥ राल्हणसाधुसुता वरवधूटी श्रेष्ठित्रिभुवनसिंहसुपुत्री । साधोः कुलचन्द्रस्यास्तेऽसौ जाया खेतूधर्मशुभाशा ॥३८॥ प्रासादे जिनवासुपूज्यसुविभोर्वीजापुरेऽचीकर च्छ्रीवीरप्रतिमाङ्कखत्तकवरं मातॄश्चतुर्विंशतेः । तीर्थेशां च कराज्जिनेश्वरगुरोस्तासां प्रतिष्ठां मधोः श्वेतैकादशिकादिने रस-कर[१३]२६)मिते वत्सरे(?) ॥३९॥ युगलम् ।। श्रीशत्रुञ्जयमुख्यतीर्थनिवहे यात्रामकार्षीच्च या चैत्यानां निरमीमपच्च कुसुमैर्लक्षेण पूजा घनाः । श्रीश्रेयांसजयाजदेवगृहिके श्रेयोनिधिप्राप्तयेऽ भिज्ञाने धनसिंहनामकलघुभ्रातुस्तथा च स्वयम् ॥४०॥ ज्ञानार्यों कुलचन्द्रसाधुरिमकां सत्पुस्तिकादीपिके पृथ्वीचन्द्रचरित्ररत्नघटिते खेतृप्रियायाः कृते । क्रीत्वाधाप्यत सौवसद्गुरुजनेभ्योऽदादियं येन तै स्ताभ्यां दर्शितमार्गतः स्खलति न श्रीभव्यसाथैः समम् ॥४१॥ श्रीतीर्थेशजयाभुवोऽभयकुमारपेंश्चरित्रोत्तमे सत्पुस्तत्रितये व्यलीलिखदियं खेतूः सुवर्णैर्भुवम् । ज्ञानश्रीनिधिबीजकं त्रिपदगं साध्वध्वसात् प्राकरोत् तद् येनास्य बलात् क्षणादपि लभे श्रेयो वरं सश्रियम् ॥४२॥ श्रीवासुपूज्यचैत्ये श्रीपार्श्वसुखत्तकं कवल्यन्तः । व्यधापयत् कुलचन्द्रः श्रेयोऽयं महणदेवी-पद्मलयोः ।४३॥ आस्तेऽन्या कुलचन्द्रस्य प्रिया काम्बलदेविका । भावेन याऽऽत्मजं धर्म वईयत्यात्मपालकम् ॥४४॥ भोः श्लाघ्यो न कथं सतां वृषवरोऽसौ मानदेवान्वयो येनानुत्तरभागदेवगृहिकाभारः स्म निर्वाह्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018007
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1965
Total Pages598
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy