SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ २९८ 1 __ मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे यात्रां रैवतकादिषु प्रकृतवांस्तीर्थेषु संघान्वित _श्चैत्यार्चादिककार्थचिन्तनमुनी(? मनाः) सद्भक्तिवृत्तामलः । श्रेयःश्रीवरकीत्तिकान्तिललितैः सत्यां स्वकीयाभिधां तन्वानः कुलचन्द्रसाधु ऋजुधीस्तुर्यः समास्तेऽसकौ ॥२६॥ आदेशाच्च जिनेश्वरस्य सुगुरोः श्रीवासुपूज्यप्रभु प्रासादे वृषभादिदेवगृहिकाप्रारम्भमारम्भयत् । यस्तामादिजिनस्य देवगृहिकामाधापयद् वैक्रमे वर्षेऽष्ट-द्वि-शिखीन्दु(१३२८)मानविदिते माघे नवम्यां सिते ॥२७॥ एषां सहोदरा भग्नी कुमारीत्यस्ति या व्यधात् । श्रेयोमालां द्विधा लातुं तपः षडुपधानकम् ॥२८॥ पद्मला नागपालस्य नागश्रीश्च प्रिये प्रिये । पुत्रवच्छीलतपसोः पालने नित्यमादृते ॥२९॥ स्वां श्वश्रू त्वनुकर्तुमत्र चतुरः पुत्रानसूतादिमान् साधुर्मोहण आद्य एषु जनुषा श्रेयो गुणैश्चापरः । पाताख्यः शुभमूर्तिकोऽथ लखमोऽन्यो देवसिंहो लघु ये धर्मस्वपराभवे कुलगतं गच्छन्ति तेजो निजम् ॥३०॥ पद्मलाम्बाकृते साधुर्मोहणः सुविधीशितुः । कारयन् देवगृहिकामुत्पताकं यशो व्यधात् ॥३१॥ पाताख्यः श्रीसुपार्श्वस्य स्वाख्यया देवगेहिकाम् । कारयामास यत्सूनुः पद्मः पाल्हणदेवीभूः ॥३२॥ नागश्रिया आत्मभुवौ सुपद्मौ पात्रात्मको रम्यगुणाभिरामौ । स्तो मूलदेवो धणसिंह एतौ सद्धर्मबुद्धिस्तनया च नाटी ॥३३॥ श्रीवासुपूज्यपूजार्थं सद्घाटौ पित्तलामयौ । प्रदीपप्रवरौ प्रादान्नागश्रीः सुकृताप्तये ॥३४॥ जम्बूमुनिप्रमुखपूर्वयुगप्रधानश्रीपार्श्वनाथजिनचारुचरित्ररम्या । ज्ञानप्रपा प्रविदधे किल पुस्तिकैका नागश्रिया शुभधिया तु निजौरसाभ्याम् ॥३५॥ सा बालचन्द्रदयिता घेला धीदास्ति शीलतुला या । अकृत षडुपधानाङ्का श्रेयस्तल्पे सुखं ललितुम् ॥३६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018007
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1965
Total Pages598
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy