________________
[२९७
प्रशस्त्यादिसंग्रहः । वाल्हीत्यस्ति सुता कृतानणुतपाः साध्वी सकोशेव या
नित्यैकान्तरभुक्तिकान्तरमहो पक्षोपवासादिकृत् ॥१३॥ स्थानेऽस्ति साध्वी वरपुण्यभाजनं लक्ष्म्यङ्गभूः खीम्बडसाधुपुत्रिका । जिनेश्वरैः सूरिभिरर्पितवतश्रीका गुणैर्नामत ऋद्धिसुन्दरी ॥१४॥ आम्रश्रीप्रियसाधुलालणतनूजन्मासको विद्यते
___ नाम्ना साधुकुमारपाल इति यः पित्रोः सुपुण्यश्रिये । श्रीपद्मप्रभनाथदेवगृहिका वीजापुरेऽकारयत्
सौवीं पुण्यतरङ्गिणी त्रिपथगां कर्तुं वयं मन्महे ॥१५॥ जिनप्रबोधसूरीणा पार्श्वे चाग्राहयद् व्रतम् । स्वं सुपुत्रं स्थिरकीर्ति सत्पुत्री केवलप्रभाम् ॥१६॥ युग्मम् ॥ जेहडसाधोधूतबहुमाये शीलतपोजलगतमलकाये । षडुपधानमालाप्तिशुभाये लक्ष्मश्रीदेवश्रीर्जाये ॥१७॥ मोहिणिराद्या तनयास्ते प्रत्यतिष्ठिपद् या निजगुरुभिः । सुपरिकरौ जिनपाश्वौं सुतपःशीलहारिणिर(?णी चा )न्या ॥१८॥ देवश्रीरात्मभूरत्नचतुष्कं कान्तिबन्धुरम् । संपूरितवती लक्ष्म्या मङ्गलं स्वगृहागमे ॥१९॥ तत्राभूद् धुरि नागपाल उरुधीः पुण्योऽथ योऽचीकरत्
साई लालणसाधुना स्वजननीपुण्याय वीरप्रभोः । चैत्ये द्वादशदेवदेवगृहिकां सौवर्णकुम्भध्वजां
श्रीजाबालिपुरे तथा द्विरकरोत् तीर्थेषु यात्रां मुदा ॥२०॥ वीजापुरे वासुपूज्यविधिचैत्ये शशिप्रभोः । श्रीदेवगृहिकां यश्च स्वपुण्याय व्यधापयत् ॥२१॥ जिनेश्वरगुरोः पार्वे महद्धर्चा यो व्रतं ललौ । स प्राज्ञः सुतपःशक्तिर्विद्याचन्द्रमुनिः परः ॥२॥ तार्तीयीकः स चतुरमतिर्बालचन्द्रोऽप्यवक्रो
__ यः श्रीशत्रुञ्जयप्रमुखमहातीर्थयात्रामकार्षीत् । श्रीमद्वीजापुरमधिविभोर्वासुपूज्यस्य चैत्ये प्रीत्या चाकारयदजितनाथाङ्कितं खत्तकोट्यम् ॥२३॥ + +
+
३८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org