________________
२९६ ]
मुनिराज श्रीपुण्यविजयानां हस्तप्रतिसंग्रहे
तत्पुत्रो मानदेवः समजनि धुरि यस्याख्ययाऽद्यापि गोत्रं सर्वं प्राप्नोति सिद्धिं कुलधर - बहुदेव यशोवर्द्धनश्च । जन्नुस्तस्यातुलास्ते जगति वरदृशां पूर्णचन्द्रप्रकाराः
कीर्त्तिज्योत्स्नाछटाभिर्दिशि दिशि परमं ये प्रकाशं प्रचक्रुः || ४ || याशोवर्द्धनिरुद्यशील सुधवा भूस्वस्तरुर्नन्दने
स्वे पट्टे जिनचन्द्रसूरिहरिंभिर्पाल्यान्मुदा रोपितः । साधुस्कन्धविशालपात्रसुमनः श्रेयः फलच्छायको
लोके मर्त्यगणैर्न कैर्जिनपतिः सूरिः सदोपास्यत ||५|| मानदेवस्य साधोस्त्रयः स्माङ्गजाः सन्ति धनदेवसाधुस्तदादिः परः । राजदेवस्तदनु साधुनीम्बाभिधः स्वकुलकुमुदाकरानन्दपर्वेन्दवः ॥६॥ धनदेवस्य धनश्रीर्जिनपालादीन् सुतानसुताष्टौ । जायाद्या गूर्जरीति परा वरा यत्सुतानाहुः ||७|| एषु स्मास्ति यशोधरो जिनपतेः सौवात् पितृव्याद् गुरोः साधुश्रेणिपतेः सुसाधुकमलाभागं समादाय यः । सद्धर्मं व्यवहारकोटिमकृत श्रीसिद्धिहेतोस्तथा
संलेभे नितरामयं मुनिजने साधूत्तमत्वं यथा ॥ ८ ॥ सरणश्च साधुरिदमीयः साहणश्चात्मभूजानिरदोऽङ्गजो गुरुरुचिः सोमः कलाभूरभूत् । यात्रां तीर्थगणे विधाय निजसद्धमेद्धिकूटं नु यः
प्रीत्या शीतलनाथदेवगृहिकां वीजापुरेऽचीकरत् ॥९॥ नीम्बदेवस्य गेहिन्यावासातां प्रथमा तयोः । पद्मश्रीः सद्गुणावासा शीलहंसकृतादरा ||१०|| तद्भार्याऽन्या जसहिणिर्या नमस्कारकोटिकाम् । गुणयित्वोद्यापनकं चक्रे कोट्यक्षतादिभिः ॥ ११ ॥ पूर्वा जेहडसाधुमङ्गजवरं तेजःपतिं प्रासवत्
पद्मश्रीः श्रितहर्षमात्तसुमनोमार्गा निशावस्थितिम् । एकमात्मभुवं च सम्पदभिधां नक्षत्रमालाश्रियं
नित्यैकक्रमचारिणीं कुलनभोऽलंकारशीलेन्दुगाम् ॥१२॥ साधू लाल - खोम्बडौ स्म भवतः श्रेयः कलासङ्गतौ सोमो गोऽमृतवर्षिणौ कृतगुरूपास्ती परस्याः सुतौ ।
अत्रान्यः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org