________________
प्रशस्त्यादिसंग्रहः ।
[२९५ श्रीजिनपालोपाध्यायमौलेस्तस्यास्य संनिधौ । मयोपादायि नन्द्यादिमूलागमाङ्गवाचना ॥३९॥ ___ +
+ + श्रीजिनपालोपाध्यायकृतां त्रिःप्रेरणामहम् । चरितकरणे प्रापं सरस्वत्युपदेशवत् ॥४१॥ +
+
+ वाग्मी तर्कज्ञ वैयाकरणगणमणिः पीतसिद्धान्तसिन्धुः
साहित्याध्वाध्वनीनो निरुपमकवितानर्तकीरङ्गभूमिः । व्याख्याताऽत्राश्रुतद्वयाश्रयविषममहाकाव्ययुग्मस्य नाना
ग्रन्थस्रष्टा च लक्ष्मीतिलकगणिमुनिर्वाचनाचार्यवर्थः ॥४३।। द्वयाश्रयटीकाकारी द्विव्याकरणः सुदृष्टसाहित्यः । सुकविरमयतिलकगणिश्चाशोधयता मिदं शास्त्रम् ॥४४॥ युग्मम् ॥ परोपकृतिशीलेन सुधिया धर्मबन्धुना । गणिनाऽशोकचन्द्रेण लिखिता प्रथमा प्रतिः ॥४५॥ श्रीनाभेयजिनेन्द्रादितुङ्गप्रसादभूषिते । श्रीवाग्भटमेरुपुरे प्रारम्भि चरितं मया ॥४६॥ श्रीमद्वीसलदेवगुर्जरधराधीशेऽधिपे भूभुजां
पृथ्वीं पालयति प्रतापतपने श्रीस्तम्भतीर्थं पुरे । चक्षुः-शीतकर-त्रयोदशमिते(१३१२) संवत्सरे वैक्रमे
काव्यं भव्यतमं समर्थितमिदं दीपोत्सवे वासरे ॥४७॥ + +
+ प्रत्यक्षरगणनया चरितेऽस्मिन्ननुष्टुभाम् । सति षट्त्रिंशदूनानि सहस्राणि नव ध्रुवम् ॥१॥ अङ्कतोपि-८९६४ ।।
श्रीचन्दनाशोक-सुबन्धु-जीव-पुन्नागसंतान-कदम्बकश्रीः । माकन्दवुन्दार्जुनजातिराम ऊकेशनामा बत भाति वंशः ॥१॥ वीरदेववरा भक्तिर्वीरदेव इहाभवत् । मुक्ताफलमिव श्राद्धः शुचिः साधुमनोहरः ॥२॥ पार्थाभिधः साधुरभूत्तदङ्गजो जिष्णुः पटुः सद्गुणधर्मकर्मणि । प्रद्युम्नलक्ष्मीगुरुरामरागभूः समुद्रमध्यस्थपरोपकारकृत् ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org