SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ प्रशस्त्यादिसंग्रहः । [ २९३ तर्क-न्यायविलासनैकचतुरं सन्नीतिरत्नाकर तकै यो विदधे धियां जलनिधिः संविग्नचूडामणिः ॥५॥ तस्याभूतां शिष्यो तत्प्रथमः सूरिराजजिनचन्द्रः । संवेगरङ्गशालां व्यधित कथां यो रसविशालाम् ॥६॥ बृहन्नमस्कारफलं श्रोतृलोकसुधाप्रपाम् । चक्रे क्षपकशिक्षां च यः संवेगविवृद्धये ॥७॥ अन्यो बभूवाभयदेवमूरिः प्रज्ञाप्रकर्षाज्जितदेवसूरिः । योऽर्थस्फुटां भव्यजनोपकारसारां नवाङ्गीविवृतिं चकार ॥८॥ य औपपातिकोपाङ्ग पञ्चाशकाष्टकोपरि । टीकाश्चक्रे स्तम्भनके पार्श्वमस्थापयत् प्रभुम् ॥९॥ श्रीजिनवल्लभसूरिस्तत्पढेऽभूद् विमुक्तबहुभूरिः । भव्यजनबोधकारी कल्मषहारी सदोद्यतविहारी ॥१०॥ तर्क-ज्योतिरलंकृतीर्निजपरानेकागमाल्लक्षणं यो वेत्ति स्म सुनिश्चितं सुविहितश्चारित्रचूडामणिः । नानावाग्जडमुख्यकान् जनपदान् श्रीचित्रकूटस्थितां चामुण्डामपि देवतां गुणनिधिर्यो बोधयामासिवान् ॥११॥ ततोऽजनि श्रीजिनदत्तसूरियेनेह कल्याणमदायि भूरि । यः पारतन्त्र्यं विषयं विधिं च प्रकाशयामास विशेषतोऽपि ॥१२॥ + + ततोऽजनि श्रीजनचन्द्रसूरिर्गुणौघसंतोषितसर्वसूरिः । अपर्वगर्वीकृतसंवरारिः स्वच्छन्वतुच्छीकृतगाङ्गवारिः ॥१४॥ + x + तत्पट्टे श्रीजिनपतिसूरिर्जज्ञेऽथ पञ्चलिङ्गी यः । श्रीसङ्घपट्टकमलं विवृत्य चक्रे बुधाश्चर्यम् ॥१६॥ ____ + + + छन्दो-लक्षण-तर्क-शास्त्र-विविधालङ्कारवित्कोविदे पृथ्वीराजसभे कुतूहलगृहे श्रीगृर्जरत्रावनौ । तर्क-न्यायवरोपपत्तिसहितैः सिद्धान्तवाक्यैस्तथा तत्त्वं प्रोच्य महीतले विधिपथं प्रोत्सर्पयामास यः ॥१९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018007
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1965
Total Pages598
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy