SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ २९२] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे [4840] अन्त:- इत्थं मयाऽभयकुमारऋषेश्चरित्रं मिथ्यात्वपुष्टतरकर्मलतालवित्रम् । श्रोतृप्रमोदभरदायि सदा पवित्रं प्रोक्तं स्वशक्तिमनपेक्ष्य विचित्रचित्रम् ॥१॥ क्वेदं महर्षेविशदं चरित्रं नानावदाताद्भुतवर्यसत्त्वम् । क वा मदीयेह समस्ति बुद्धिरतीवमन्दा गतसर्वशुद्भिः ॥२॥ तथा च-पङ्गुः समर्थः क्व धरेऽधिरोढुं किं कातरो हेतिगणं विसोढुम् । अन्धस्य किं दृग्विषयं प्रयातु किं वामनस्तालफलानि लातु ॥३॥ निर्यातु सिन्धोः किमगाधमग्नः फालं कथं यच्छतु वातभग्नः ।। किं भ्रष्टविद्यो नभसि प्रयातु गायत्वकण्ठः किमु हन्त जातु ॥४॥ किं तर्णकः कापि बिभर्तु भारं निःस्वः कथं भूरि ददातु सारम् । एवं विबुद्धिः किमहं सदर्थमेतच्चरित्रं वदितुं समर्थः ॥५॥ तथापि किञ्चिच्चरितं यदुक्तं मयाऽवदातैः कतिभिश्च युक्तम् । तत्रैव हेतुर्गतबुद्धिसादः सरस्वतीसंरचितः प्रसादः ॥६॥ यद्वाङ्मयाम्भोनिलयाधिदेवी जिनस्य वासा( ? चा) किल वाणीदेवी । स्यात् कल्पशाखिप्रमुखी समाना तुष्टा सती क्लप्तसुबुद्धिदाना ॥७॥ यथोदकोदञ्चन आत्ममात्रं लात्यर्णवाम्भस्यपि नाधिमात्रम् । सङ्ख्याति भो निर्मलनेत्रतारायुक्तोऽपि कत्येव यथेह ताराः ॥८॥ + + + + + अस्ति चान्द्रं कुलं शीतलेश्यं तारकसंयुतम् । अमृतस्राविगोस्तोमं सुमनोमार्गसंस्थितम् ।।१।। सूरिः श्रीवर्द्धमानोऽत्र जज्ञे बुध इला प्रियः । कामजित्वररूपश्रीः सौरमण्डलमध्यगः ॥२॥ विज्ञातवान् यः किल सूरिमन्त्रं माहात्म्यवन्तं धरणेन्द्रतन्त्रम् । विचार्य संत्यज्य च चैत्यवासं चक्रेतरां यो वसतौ निवासम् ॥३॥ अजनि जिनेश्वरसूरिस्तच्छिष्यो येन दुर्लभनृपस्य । परिषद्यणहिलनगरे प्रकटीचक्रे वसतिमार्गः ॥४॥ निर्वाणाध्वरविं कथां नवरसां निर्वाणलीलावती सूत्रं वृत्तियुतं कथानकमहाकोशस्य संवेगकृत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018007
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1965
Total Pages598
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy