________________
[२९१
प्रशस्त्यादिसंग्रहः । विवरणमन्यद् दृष्ट्वा बुधैस्ततो ज्ञास्यते विशेषात् ।।
प्रायेण येन भुक्तं तद्वजानीयात् कुतो विशेषज्ञः ॥२॥ इति श्रीआनन्ददेवायनिवल्लभविरचिते माघभाष्ये वंशविवरणं समाप्तम् ।
संवत् १७५३ वर्षे भाद्रपदसुदि १० गुरुवासरे अद्य श्रीमदणहिल्लपत्तने लिपीकृतमिदं पुस्तकम् ।
[4831 ] अन्तः-सूनुरानन्ददेवस्य रणभूम्यामभास्वतः ।
व्यधत्त काव्येऽस्मिन् टीकां वल्लभः सूरिवल्लभाम् ॥१॥ विवरणमन्यद् दृष्ट्वा बुधैस्ततो ज्ञास्यते विशेषोऽत्र । येन ननु वल्लभी[- - ]स कुतो ह्यशेषज्ञः ॥२॥ श्लोकानामवमन्येथाः सहस्राणि दशैव हि । मूलग्रन्थस्य सहस्रे द्वे तथैव च ग्रन्थाग्रम् ॥३॥ अनुष्टुपच्छन्दसा श्लोक १२००० । द्वादशसहस्राः । शिवमस्तु सर्वजगतः परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाशं सर्वत्र सुखीभवतु लोकः ।। संवत् १५५० वर्षे कार्त्तिकशुदिनवमी शनौ पुस्तिके यं लिलेख ।
[पश्चात्कालीनोऽयमुल्लेखः--] माघकाव्य मुनिचारित्रविजेजीका ।
[4834 ] आदिः-वाचो वः पान्तु नित्यं मधुकरनिकरश्यामलाः श्रीकटाक्षाः
___ कालिन्दीभृङ्गयुक्तासितनलिनयुतक्षीरकल्लोलकल्पाः । स्फूर्जन्नीलेन्द्ररत्नातिभरसदृशः शोभयन्तः सदास्यं
कुर्वन्तः खञ्जरीटं निजरुचिरहितं स्वप्रभाभिर्वराभिः ॥१॥ स्मृत्वा श्रीश्रुतदेवतां सुमनसां वारैर्नतांहिचर्या (?)
___कण्ठे दाम मनोहरं सुमनसां नित्यं वहन्तीमिमाम् । कुर्वेऽहं विदुषां चमत्कृतिकृते माघस्य वृत्तिं लघु . सूत्रार्थप्रसवां सुबोधसुगमां जाड्यान्धकारप्रभाम् ॥२॥
अन्तः- इति श्रीखरतरगच्छे वरेण्याचार्यश्रीकीतिरत्नसूरिसंतानीयवाचनाचार्यश्रीलब्धकल्लोलगणिक्रमाम्भोजभृङ्गायमानशिष्य-महोपाध्याय-श्रीललितकीर्तिगणिविरचितायां सन्देहान्धकारध्वंसदीपिकायां ललितमाघदीपिकायां सुरतवर्णनो नाम दशमः सर्गः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org