SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ २९० ] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे श्रीप्रद्युम्नसूरीश्वरः सविशदं सद्यः प्रसद्य व्यधाद् ज्ञैरन्यैरपि शोधनीयमसमं धृत्वा ममत्वं मयि ॥११॥ प्रत्यक्षरं च सत्यानात् पञ्चपञ्चशताधिका । अस्मिन्ननुष्टुभामष्टचत्वारिंशत्शती ध्रुवम् ॥१२॥ ग्रन्थानम् ४८५५ ॥ उदकानलचौरभ्यो मूषकेभ्यो विशेषतः । रक्षणीया प्रयत्नेन यतः कष्टेन लिख्यते ॥१॥ संवत् १४७२ वर्षे शाके १३३८ प्रवर्त्तमाने प्र० ज्येष्ठ वदि भौमे ज्येष्ठानक्षत्रे सिद्धियोगे कौलवकरणे पिप्पलाचार्यश्रीशान्तिसूरिसंताने श्रीजिनेश्वरसूरयः । तत्पट्टभारधौरेयाः श्रीशावदेवसूरयः । पट्टे श्रीललितप्रभसूरयः । पट्टे श्रीअमरचन्द्रसूरयः । तत्पट्टसंयमिनां धुर्याः श्रीरत्नसिंहसूरयः । अमीषां गु(? तद्गुणवन्तानां(? वतां ) श्रीभावदेवसूरयः ॥ तस्य पट्टोदयगिरौ बालमार्तण्डसन्निभः । श्रीवीरसिंहसूरीन्द्रो गुणैर्विजयतेऽधुना ॥२॥ [ . . . ] श्रावकस्तेषां गुरूणां जातवासनः । ददौ निदानं पुण्यस्य पुस्तकं नतमस्तकः ॥३॥ राजहंसाविमौ यावच्चरतोऽत्र नभोऽङ्गणे । वाच्यमानं गणधरैः तावन्नन्दतु पुस्तकम् ॥४॥ _[अन्यदीयाक्षरैस्तावदयमुल्लेखः-] श्रीआञ्चलगच्छधि[च्छाधिराजश्रीश्री ॥ [4829] आदिः-यस्य भृङ्गावली कण्ठे दानाम्भोराजिराजिते । भाति रुद्राक्षमालेव स वः पायाद् गणाधिपः ॥१॥ अभीष्टफलं सम्पत्तिहेतुं स्मृत्वा सरस्वतीम् । शिशुपालवधे काव्ये सारटीका विधीयते ॥२॥ अन्तः- इति श्रीशिशुपालवधे महाकाव्ये अङ्के आनन्ददेवायनिश्रीवल्लभदेवविरचितायां सन्देहविषौषध्यां सारटीकायां शिशुपालवधो नाम विंशतिमः सर्गः ॥२०॥ समाप्तमिदं शिशुपालवधाभिधानं महाकाव्यम् ॥ सूनुरानन्ददेवस्य रणभूत्योर्मतस्य च । व्यधत्त टीकां काव्येऽस्मिन् वल्लभः सूरिवल्लभाम् ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018007
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1965
Total Pages598
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy