________________
[२८५
प्रशस्त्यादिसंग्रहः। योऽकारयन्महावीरचैत्यं संगमखेटके । तस्मै हलशतक्षोणी चतुर्वाटीयुतां ददौ ॥१०॥ तद्भूरभूदथोन्मर्दी कपर्दी येन कारितः ॥ चैत्यं युगादिदेवस्य ग्रामे वटसरो( रा )भिधे ॥११॥ तत्पुत्र आम्रदेवोऽभूदाम्रवन्मङ्गलास्पदम् । राणुका गेहिनी तस्य पुण्यश्रीरिव देहिनी ॥१२॥ तत्सूनुर्देवचन्द्रोऽभून्निस्तन्द्रो धर्मकर्मणि । पमिनी पद्मिनीवास्य प्रिया शीलश्रियो गृहम् ॥१३॥ चत्वारो जज्ञिरे विश्वनन्दना नन्दनास्तयोः । भव्यजीवमनःशुद्धयोधर्मभेदा इवाङ्गिनः ॥१४॥ तेषु ज्येष्ठोऽजनि श्रीमान् अम्बडः सचिवाग्रणीः । अद्वितीयो विवेकेन द्वितीयो जहणस्ततः ॥१५॥ श्रीमदाह्लादनो जातिमण्डनं दण्डनायकः । मन्त्री धर्मधुराधुर्यस्तुर्यः प्रह्लादनः पुनः ॥१६॥ एभ्यः स्वर्गश्रियं प्राप्ते श्रीमदम्बडमन्त्रिणि । विशेषाद् धर्मधुर्यत्वमाह्लादनसुधीर्दधौ ॥१७॥ यत्कीर्त्तिव्रततिस्थारापद्रस्थानकसम्भवा । न्यायधर्मामृतैः सिक्ता विस्तृता विश्वमण्डपे ॥१८॥ यः श्रीसत्यपुरे वीरप्रासादे नाभिनन्दनम् । थारापद्रे च नाभेयचैत्ये श्रीपार्श्वनायकम् ॥१९॥ तथा चन्द्रप्रभस्वामि-सीमन्धर-युगन्धरान् । अम्बिका-भारती-मूर्तीदिव्यस्फूर्तीय॑धापयत् ॥२०॥ युग्मम् ॥ नाभीपने यथात्मानं योगी ध्यायत्यहर्निशम् । पद्मकोशे तथा योऽयमादिनाथं स्वकारितम् ॥२१॥ ग्रामे वटसरो( रे ) नाम्नि तथा संगमखेटके । येनोद्दधे समं पूँश्चैत्यद्वन्द्वं जिनान्वितम् ॥२२॥ अणहिल्लपुरीलक्ष्म्यास्तिलक श्रेयसां निधिः । स्वगुरोर्वसतिर्येनोद्दधे भक्तिशुभात्मना ॥२३॥ लेखयत्यमलज्ञानदानभृत् पुस्तकानि यः । अगण्यपुण्यलक्ष्म्याप्त्यै शासनानीव सर्वदा ॥२४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org