________________
मुनिराज श्री पुण्यविजयानां हस्तप्रति संग्रहे [ 4816] [ अन्यदीयहस्तेनोल्लिखित :- ]
श्री पूज्यजी श्री माणिकन्दजी- तत्शिष्यऋषिचतुरचन्द - श्री मांडवीना भंडार में प्रत मूकी छै । सं० १८५८ ना कार्त्तिक शुदि १५ गुरौ ।
[ 4818 ]
२८४ ]
अन्तः—श्रीवासुपूज्यचरितं परिपूर्णमेतदाह्लादनं सततमन्तरनुस्मरन्तः । रोमाञ्चरम्यमहसः सह सर्वदेवैः स्थानं ययुर्निजनिजं जयिनः सुरेन्द्राः ॥६९॥
युग्मम् ॥
इति दण्डाधिपति श्रीमदाह्लादनसमभ्यर्थितश्रीविजय सिंह - शिष्यश्रीवर्द्धमानसूरिविरचिते श्रीवासुपूज्यचरिते आह्लादनाङ्के महाकाव्ये महोदयलब्धिवर्णनो नाम चतुर्थः सर्गः । ग्रन्थाग्रन्थ १३६९, उभय ५४५१ । सम्पूर्णमिदं भूर्भुवः स्वस्त्रयीपूज्य श्री वासुपूज्य चरितम् ॥ श्रीनागेन्द्रमुनीन्द्रगच्छतिलकः श्रीवीरसूरिर्बभौ यस्माद् बोधमवाप्य मण्डलपतिर्जज्ञे यतिश्च श्चिगः । तच्छिष्यः परमारवंशविंशदः श्रीवर्द्धमानप्रभुस्तत्पट्टोदय पर्वतैकतरणिः श्रीरामसूरिस्ततः ॥ १ ॥ चन्द्रः कुवलयोदबोधे चन्द्रसूरिरभूद् गुरुः । ततः शमसुधाम्भोधिर्देवसूरिमुनीश्वरः ||२|| बभूवाभयदेवाख्यः सूरिभूरिगुणोद्भुतः । श्रीहेमसूरिर्यद्वाख्यां व्याचख्यौ भूभुजा समम् ॥३॥ श्रीमान् धनेश्वरः सूरिरथाजनि मुनिप्रभुः । रूपे वचसि च प्राप जयपत्रं जनेषु यः ॥४॥ गुरुर्विजयसिंहोऽभूत् यश्चक्रे प्रियमेलकम् । सर्वत्र स्वसरस्वत्या विद्वज्जनमनोऽम्बुधौ ॥५॥ निस्तन्द्रोऽजनि देवेन्द्रसूरिर्यन्मुखमण्डपे । विलास कवित्वश्रीः साकं वक्तृत्वसम्पदा ||६| सूरेर्विजयसिंहस्य शिष्यो गुर्वाज्ञया ततः । सूरिः श्रीवर्द्धमानोऽस्मिन् गच्छे यामिकतां दधौ ॥७॥ उदयाद्रिरिव श्रीमान् स नन्द्यादुदयप्रभः । यत्रोदयी वचोभानुर्भव्याम्भोजानि भासयेत् ॥८॥ अस्मिन् गुरुक्रमे भक्तः श्रीगल्लककुलेऽभवत् । वाघूर्व्याधूतदुः कर्म्मा धर्माम्बुधिविधुः सुधीः ||९||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org