SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ प्रशस्त्यादिसंग्रहः । २७५ तत्सूनुजेगसीरसीमविनयो दानादयो ये गुणाः सर्वासंख्यगुणा इव ग्रहगणा व्योमाङ्गणं वत्रिरे । शीलोन्मीलिजलप्रवाहविलसत्पावित्र्यमाबिभ्रती मांऊनामवती यदीययुवती गङ्गामतीत्याभवत् ॥८॥ गोल्हाह्वयस्तत्तनयो बभूव भूवल्लभस्यापि हि वल्लभो यः । अपुण्यपुण्योदकदुग्धवेत्ता रराज यः श्रीकुलराजहंसः ॥९॥ सामांनाम तदीया प्रिया श्रिया सन्निभा सुशीलवती । या शिश्राय तमेकं पुरुषोत्तममुत्तमा युवती ॥१०॥ तत्पुत्रः सुचरित्रसंचितयशाः श्रीराजमल्लः कृती ख्यातः श्रीमहिमूदमालवपतेः शृङ्गारकः संसदाम् । सागूर्यस्य जनी यशोवसुखनी सच्छीललीलावनी शुद्धाचारविचारिम[ - - ]घनीभूतस्वभावावनी ॥११॥ टङ्काणामयुतं रसेन गुणितं स्पष्टं वितीर्य स्फुरत् तेजोराशिरुदात्तकीर्त्तिकलितः पात्रं पवित्रं श्रियाम् । लक्ष्मीसागरसूरिराजसुगुरोर्थः कारयामासिवान् नानातोद्यरवं कलावभिनवं प्रौढप्रवेशोत्सवम् ॥१२॥ तदङ्गभूरागमरङ्गभूमिः श्रीजावडः सङ्घपतिर्विभाति । यच्चित्तपनं सरसं श्रयेत सार्वेश्वरोऽयं भ्रमरश्चिराय ॥१३॥ श्रीग्यासदीननृपतिः सदा ददातीह यस्य बहुमानम् । न वहति हृदाभिमानं तस्य समानं हि कं कविः कुरुते ॥१४॥ यन्मस्तके मुकुटवत्प्रकटा जिनाज्ञा जैनागमः श्रवसि यस्य तु कुण्डलाभः । भक्तिर्जिने जयति हारलतेव यस्य श्रीजावडः स किल भाति कुमारपालः ॥१५॥ श्रीमत्तपागणगरिष्ठपतेः प्रबोधमासाद्य यः सुमतिसाधुगुरोः सकाशात् । रैरूप्यरीतिघटितप्रतिमाप्रतिष्ठाकार्योत्सवं कलियुगाभिनवं विधत्ते ॥१६॥ जीवादे-सक्तादे-सुहागदेव्यश्च तदनु खीमादेः । एतास्तस्य चतस्रः स्वकरगृहीता रवेरिवाशास्ताः ॥१७॥ धनाईकुक्षिकासारहंसश्रीहीरनामकः । कुमारस्तस्य विस्तारप्राप्यमाणयशोभरः ॥१८॥ खी]मादेस्तस्य सोनादेम्नैिवं दयिते ऊभे । ताभ्यां सत्कल्पवल्लिभ्यामिव कल्पद्रुमो हि सः ॥१९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018007
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1965
Total Pages598
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy