________________
२७६]
मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे लालाख्यः साधुरधिको यः] बन्धुस्तस्य निश्चलः । यन्मानसमिहाध्यासामास हंसो जिनेश्वरः ॥२०॥ लीलादेस्तस्य दयिता सदया शीलशालिनी । अलिनीव जिनाधीशधर्मोस्नलिनीवने ॥२१॥ एवं सारपरीवारः सदाचारविचारवान् । जिनशासनशृङ्गारः शुद्धव्यापारकारकः ॥२२॥ श्रीजावडो जगद्गोत्रचरितः परितो महीम् । महोभिर्मोहयत्येष योषां महौषधैरिव ॥२३॥ युग्मम् ॥ तेनाय जगतीप्रतीतसुकृतव्यूहेन विश्वम्भरा
____ भूषाहेतुर्गुणोत्करेण कृतिना श्रीजावडेनाधुना । सत्रागारमिव व्यधाप्यत मया ग्रन्थो यथेष्टं जनाः
तृप्तास्तिष्ठथ तत्र मुक्तिनगराध्वन्याश्च धन्याश्च ये ॥२४॥ श्रीजावडेन किल शास्त्रमिषात् तटाकं
निर्मापितं भविकजीवकृते भवान्तः । तस्मिन् जिनेश्वरवचःसलिलानि पीत्वा
दुःपापतापशमनान्न शमैति कस्कः ॥२५॥ श्रीमत्तपागणगच्छपयोधिरत्नचारित्ररत्नोऽजनि वाचकेन्द्रः । यबुद्धिबेडाबहुशास्त्रवादान् नित्यं जगाहे किल हेलयैव ॥२६॥ तच्छिष्योऽजनि शिष्यस्वान्तवनोपान्तपल्लवनमेघः । वाचकजिनमाणिक्यो मयूरमिव मां व्यरीरचद् य इति ॥२७॥ चारित्ररत्नवाचकशिष्याः श्रीसर्वहसगणिवर्याः । पण्डितपदवीधुर्याः सरससुधाजैत्रवाणिमाधुर्याः ॥२८॥ तच्छिष्यः शिवहेमपण्डितवरश्चारित्रचर्योदुरः
__संवेगप्रशमादिसद्गुणमहारत्नौघरत्नाकरः । तद्वत्पण्डितमौलिमण्डनमणिर्वादीभकुम्भे सृणिः
प्रख्योऽयं जयसाधुरुत्तमगणिश्रेणिषु माद्यद्धृणिः ॥२९॥ तच्छिष्यमुख्य एष श्लेष-समस्यार्थ काव्यजित् । काव्यं वितनोति ग्रन्थममुं समुदञ्चन्नैकरसपरमम् ॥३०॥ सर्वविजयः स धीमान् सीमाकवितार्किकप्रकाण्डानाम् । वरकाणपार्श्वनाथप्रसादसाह्लादहृदयतया ॥३१॥ युग्मम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org